________________
१३० ईशानशिवगुरुदेवपद्धती [क्रियापादः इत्यमित्रयमेकीकृत्य अग्निचैतन्याय नमः इति स्वबीजेनामौ चैतन्यं विन्यस्य तदेव बीजं दीघैः स्वरैः संयुतं हृदयादीनि षडङ्गानि भवन्ति । तैरग्निभिमन्त्रय वौषडन्तेन मूलेन धेन्वामृतीकृत्य हृदाभिपूज्य वर्मणा संरक्ष्य कराभ्यां गृहीत्वा वागीश्वरीवागीश्वरयोरखा (मिनि) रम्बरयोरीशानकोणे दिव्य- शयने सङ्गतयोः क्षोभं विचिन्त्याग्निं पात्रस्थ माकण्ठादुद्धृत्य कुण्डस्योपरि त्रिः परिक्रम्य जानुभ्यां भूमौ स्थितः स्वाभिमुखमग्निं शिवबीजं ध्यात्वा शक्तेर्नाड्या मूलेन प्रक्षिप्य विकीर्णमस्त्रेणैकीकृत्य वस्त्रं परिधाप्य शौचमाचमनादि मनसा सङ्कल्प्येन्धनैः कवचेनाच्छाद्य धवित्रेण प्रज्वाल्य गर्भरक्षार्थं दर्भकङ्कणमस्त्रजपि- तं वागीश्वर्या दक्षिणहस्ते बद्ध्वाथ गर्भाधानाय सद्योजातेनाभ्यर्च्य तिलैराहुति- पञ्चकं हृदयेन हुत्वा तथा वामेन शिरसा च पुंसवनमथाघोरेण शिखया च सीमन्तोन्नयनं कृत्वा ओं हां पुर्यष्टकदेहाय नमः इति देहं सङ्कल्प्य जलबिन्दु कुशाग्रेण जीवभूतं शिखया प्रक्षिप्य तिलाहुतिपञ्चकेन सद्यादिपञ्चवक्त्राणि वह्नेः सङ्कल्प्याङ्गकल्पनां च तथा विधाय वक्त्रनिष्कृतिं च तद्वत् सम्पाद्यान- न्तरमेव वागीश्वरी प्रसूतां जातकुमारमग्निं च ध्यात्वा तत्पुरुषेणाभ्यर्च्य वर्मणा हुवा जातकर्म भवति । अथार्ध्यजलैरस्त्रेण कुण्डं परिषिच्य परिस्तरणदर्भाश्च दर्भकङ्कणं च त्यक्त्वा सूतकनिवृत्तये वागीश्वरीं देवं कुमारं चास्त्रजलैः सम्प्रोक्ष्य स्नानवसन- विभूषणादिकं मनसैव सङ्कल्प्य दर्भैः कुण्डकण्ठे परिस्तीर्य लालापनोदनार्थं पञ्चपलाशसमिधः साम्राः प्रादेशसम्मिता घृताक्ताः शस्त्रेण जुहोति । ततस्त्रिंशद्दर्भैः कृतया प्रागुत्तराग्रया वेण्या कुण्डं संवेष्टय यथोक्तपरि- धीन् विन्यस्य तेषु परिधिविष्टरेषु प्राच्यां ब्रह्माणं दक्षिणे शङ्करं पश्चिमे वि- ष्णुमुत्तरेऽनन्तमीश्वरं चाबाह्य हृद्वीजपूर्व स्वनामभिरभ्यर्च्य लोकपालांश्च स्वा- . शास्वस्त्राणि चेष्ट्वा शिवाज्ञां श्रावयेत् । भो भो ब्रह्मेन्द्रविष्ण्वाद्या देवाः सास्त्राः शिवाज्ञया शिवाग्निमेनं रक्षध्वं स्वावकाशेष्वास्थिता इति रक्षां विधाय ( सुक्खुवावस्त्रे ) प्रक्षाल्यादाय दर्भचतुष्टयसहितौ हृदा (न निरी) ६यास्त्रेण प्रताप्य शिरसा प्रक्षाल्य पुनः प्रताप्य संक्षाल्य स्रुवं विन्यस्य सुच- मादाय दर्भायैः स्रुचोऽग्रं ओं हां शिवतत्त्वायेति सम्मृज्य मध्यं दर्भमध्येन विद्यातत्त्वायेत्यथ मूलं दर्भमूलेनात्मतत्त्वायेति सम्मृज्य पुनर्मूलमध्याग्रेषु