________________
१२८ ईशानशिवगुरुदेवपद्धतौ निर्ऋतेः किञ्चिदाग्नेय्यां शास्तारं स्वाख्यया यजेत् । वायोस्तु निकटे किञ्चिदैशान्यां स्कन्दमर्चयेत् ॥ २३ ॥ [क्रियापादः कुबेरात् पश्चिमे किञ्चिद् यजेद् दुर्गा स्वमन्त्रतः । ईशानान्नैर्ऋते किञ्चिच्चण्डेशं मन्त्रतो यजेत् ॥ २४ ॥ पञ्चमस्य चतुर्थ्यान्त्यौ पञ्चमाग्निस्वरान्वितौ । प्रणवाद्यौ समुद्धृत्य चण्डशब्दं च वर्म च ॥ २५ ॥ अस्त्रं च सप्तवर्णः स्या (न्मनुश्च ) ण्डेश्वरस्य तु । ओं चण्डाय नमः । ओं चण्डेशाय नमः इति चार्चयेत् । वृषभाद्यास्तु चण्डान्त्या याः प्रोक्ता देवतास्त्विमाः ॥ २६ ॥ स्थिरलिङ्गे तु पूज्याः स्युर्न चले स्थण्डिलेऽपि च । यथा ललिते- इति । - “चले वा स्थण्डिले नित्यविधौ न वृषभं यजेत् । न सप्तमातरस्तत्र चण्डः स्कन्दोऽपि नेष्यते ॥ नैमित्तिके पवित्रादौ चैषां पूजा विशिष्यते ॥” लोकेशावरणाद् बाह्मे वज्रादीनि स्वनामभिः ॥ २७ ॥ स्वरूपतश्च संस्मृत्य दशदिक्षु क्रमाद् यजेत् । यथोपपत्त्या गन्धाद्यैर्यजेदावरणस्थितान् ॥ २८ ॥ यदसम्पन्नमेतेषां मनसा तत् प्रकल्पयेत् । उत्सवो बलिदानं च स्थिरलिङ्गे विधीयते ॥ २९ ॥ न चलस्थण्डिलार्चासु द्वयमेतत् समाचरेत् । विभवे सति गीतं च नृत्तं वाद्यादिकं च यत् ॥ ३० ॥ सामान्येन प्रशस्तं हि स्थिरेष्वपि चलेषु वा । तथाद्मिकार्यं सर्वत्र प्रकुर्वीत विधानतः ॥ ३१ ॥