पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

पञ्चावरणपूजाविधिः] उत्तराध चतुर्दशः पटलः । इन्द्रोऽग्निश्च यमश्चाथ निर्ऋतिर्वरुणस्तथा । वायुर्वैश्रवणस्तद्वदीशानश्चापि लोकपाः ॥ १७ ॥ ऊर्ध्वलोकाधिपो ब्रह्मा स्यादीशानेन्द्रमध्यगः । अधोलोकाधिपोऽनन्तो रक्षोवरुणमध्यगः ॥ १८ ॥ सुराणां तेजसां तद्वत् प्रेतानां रक्षसामपि । जलानां प्राणयक्षाणां ज्ञानानां लोकभोगिनाम् ॥ १९. ॥ क्रमादेतेऽधिपतयः सवाहपरिवारकाः । रुद्रपार्षदशब्दान्ताः पूज्यास्तत्पार्षदास्तथा ॥ २० ॥ १२७: धनदस्य समीपे तु सोमाय नक्षत्राधिपतय इत्यादिना सोमं च यजेत् । ओं हाम् इन्द्राय सुराधिपतये सायुधवाहनपरिवाराय रुद्रपार्षदाय नमः । त- त्पार्षेदेभ्यो नमः । इत्यादिमन्त्रैः पूर्वादिदशाशासु यजेदिमान् । लोकपालावृतावेव पूज्याः स्युर्देवताः पुनः ॥ २१ ॥ ओं हां वृषभाय नमः । “इन्द्रः प्राच्यां वृषस्थाने ज्योऽस्ति वृषभो यदि । स्थिरलिङ्गे वृषः पूज्यो न चले वृषभः स्मृतः ॥” इति ललिते । पश्चाद् यमाद् वीरभद्रः पूज्यः प्रत्यङ्मुखो भवेत् । प्राङ्मुखश्चैव विघ्नेशस्तयोर्मध्येन मातरः ॥ २२ ॥ ओं लं वीरभद्राय नमः । ॐ गं गणपतये नमः । ओं व्यों ब्रह्माण्यै नमः । ओं मां माहेश्वर्यै नमः । ओं कां कौमार्यै नमः । ओं हां वैष्णव्यै नमः । ओं हें वाराह्यै नमः । ओं हों इन्द्राण्यै नमः । ओं हूं महाकाल्यै चामुण्डायै नमः । एतासामग्रतः पुनः सर्वमातृरर्चयेत् । ओं मातृभ्यो नमः । सर्वमातृगणेभ्यो नमः इति ।