सामग्री पर जाएँ

पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

७० ईशानशिवगुरुदेवपद्धतौ स्वजातियुक्तं तु शिरः शिखामन्त्रोऽपि कथ्यते । तृतीयं पदमुच्चार्य ज्वालिनीति द्विरभ्यसेत् ॥ ११० ॥ जातियुक्ता शिखोक्ताथ चतुर्थ पदमुद्धरेत् । [क्रियापादः उक्त्वा पिङ्गलशब्दं तु वर्म स्याज्जातियोजितम् ॥ १११ ॥ पञ्चमं पदमुच्चार्य शिवाघोरास्त्र के तथा । जातियुक्तं तदस्त्रं स्यादङ्गानीमानि पञ्च हि ॥ ११२ ॥ व्योमव्यापिमनोरस्य चन्द्रज्ञानोक्तमार्गतः । षडङ्गान्यपि दृष्टानि लिख्यन्ते तान्यनुक्रमात् ॥ ११३ ॥ ओं व्योमव्यापि शिव ओं नमः सर्वात्मने पराय परमेश्वरपराय यो - गाय योगसम्भवाय करकर कुरुकुरु सत्यसत्य भवोद्भव वामदेवाय सर्वकार्य- प्रशमन सदाशिव प्रसन्न नमोऽस्तु ते स्वाहा हृदयाय नमः । ओं शिव ब्रह्म- शिरसे स्वाहा । ओं शिवहृदयज्वालिनि स्वाहा ज्वालिन्यै शिखायै वषट् । शिवात्मकं महादेवं सर्वज्ञं प्रभुमव्ययम् । आवर्तये महाघेोरं कवचं पिङ्गलं शुभम् ॥ १९४ ॥ आयाहि पिङ्गल ! महाकवच ! शिवाज्ञया हृदयं बन्धबन्ध ज्वलज्वल घूर्णघूर्ण शक्ति वज्रधर वज्रपाशमनुप्रविश्य सर्वदुष्टान् स्तम्भयस्तम्भय हुं फट् । पिङ्गलाय कवचाय हुन् । ओं जुं सं ज्योतीरूपाय नेत्रत्रयाय वौषट् । पूर्व- वदघोरास्त्रमेवास्त्रम् । " सर्वकर्मकराः सर्वे सर्वे सर्वार्थसाधकाः । इति मत । सर्वरूपधराः सर्वे सर्वे चामोघशक्तयः ॥ शिवकार्येद्भवाः सर्वे न मीमांस्याः कथञ्चन । " इत्यस्मादस्य मन्त्रस्य न पृथग्देवताः स्मृताः । शिवो हि देवता चास्य ऋषिः शक्तिर्गायत्रिसंज्ञितम् (१) ॥ ११५ ॥ छन्दः स्मृतमथोऽन्यत् तु न मीमांस्यं कथञ्चन । षष्ठायं भूमिबीजस्थं पञ्चमस्वरबिन्दुयुक ॥ ११६ ॥