नानार्थार्णवसंक्षेपे प्रशस्तेऽथाजयः प्राह स्वादौ च द्वे तु मानुषे । स आह शण्डलिङ्गं तु सलिले द्रविणे मणौ ॥ १२०५ ॥ बसिराख्ये च भैषज्ये क्षीरस्वामी वचोऽपठीत् । वल्गु तु त्रिषु चारौ च मधुरे वाचि तु स्त्रियाम् ॥ १२०६ ॥ क्ली नेत्ररोम्णि वप्ता तु त्रिषु व्रीह्यादिवापके । कारके मुण्डनस्यापि ना तु ताते वणिक् पुनः ॥ १२०७ ॥ क्रयविक्रायके त्रि स्याद् वणिज्यायां पुनः स्त्रियाम् । व(र्ष्मे?र्ष्म) न स्त्री परिच्छेदे शरीरश्रेष्ठयोरपि ॥ १२०८ ॥ पाठः. सुश्रुतिस्तु महत्याह सज्जनस्तु पठत्यदः । शुष्म संज्ञबलेऽन्यस्तु वदत्युच्छ्रायवाचिनम् ॥ १२०९ ॥ वज्री तु वज्रयुक्ते त्रि पुल्लिङ्गस्तु पुरन्दरे । वर्णी वर्णवति त्रि स्याद् ब्रह्मचारिण्यथ स्त्रियाम् ॥ १२१० ।। स्त्रीमात्रे स्त्रीविशेषे च हरिद्वायां च वर्णिनी । व्रती व्रतवति त्रि स्याद् द्वे त्वश्वे त्रि तु वन्दिवाक् ॥ १२११ ॥ पाठके स्तुतिवाक्यस्य द्वे तु स्तवनजीविनोः । वैदेहे मागधे चापि बशी तु त्रिः प्रभौ स्मृतः ॥ १२१२ ॥ द्वयोस्तु जलमार्जारे वार्ता तु स्यात् स्त्रियामियम् | वार्ताक्यां वर्तनोदन्तकृषिप्रभृतिवृत्तिषु ॥ १२१३ ॥ निःसारारोग्ययोस्तु क्ली वृत्तिमन्नीरुजोस्त्रिषु । सम्बन्धिनि च वृत्तस्य वृत्तेश्चाथ त्रिषु स्मृतः ॥ १२१४ ॥ वाम: स्यात् सुन्दरे सव्ये प्रतिकूले स्त्रियां पुनः । महादेवस्य नवसु शक्तिष्वेकत्र योषिति ।। १२१५ ॥ योषिद्भेदे परे वामा स्यादशवायां तु वाम्यसौ । सज्जनस्तु द्वयोरुष्ट्रे ना तु स्याद् वरुणे स्मरे || १२१६ ॥ १. 'यस्त्वाह' क. ग. घ. ङ. पाठः, ४. 'इ' क, ख. ङ. पाठः, २. 'ण' क. ख. घ. ङ. पाठः ५. 'ष्टि' ङ. पाठः, ३. 'ही' क.ब.
पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१५२
दिखावट