सामग्री पर जाएँ

पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानार्थार्णवसंक्षेपे तदा पट्टी पटुरिति क्ली तु स्याल्लवणद्वये । ऊषाख्ये सैन्धवाख्ये चेत्येवं नानाब्रुवन् बुधाः ॥ ७३५ ॥ प्रत्यक् प्रतीच्येऽभिमुखे प्रतीच्यभिमुखे त्रिषु । देशे पुंसि प्रतीची तु पश्चिमायां दिशि स्त्रियाम् ॥ ७३६ ॥ प्रथमापञ्चमीसप्तम्यर्थेष्वेषोऽपि वाव्ययम् । पर्व सर्वेऽपि चाचार्या: क्लीवमन्ये समामनन् ॥ ७३७ ॥ भाष्यकारस्तु भगवान् योगसूत्रे प्रयुक्तवान् । गुणपर्वाण इत्येवं षष्ठीतत्पुरुषे नरम् ॥ ७३८ ॥ विषुवादाववसरे पञ्चदश्यां तथोत्सवे । प्रतिपत्पञ्चदश्योश्च सन्धौ ग्रन्थिद्वयान्तरे ॥ ७३९ ॥ इक्षुवेण्वादिदण्डानां ग्रन्थौ त्वेवेति केचन । पद्वा वत्से द्वयोः पुंसि त्वन्ये गत्यवसानयोः ॥ ७४० ॥ पत्री पुंसि शरे द्वे तु श्येने सर्वखगेष्वपि । पत्रिणी तु स्त्रियां पत्न्याः कनिष्ठस्वसरि स्मृता ॥ ७४१ ॥ पत्रं तु ( यत्रे यस्यापि?) तत्र स्याद् भेद्यलिङ्गकम् । पद्मी द्वयोर्गजे पद्मवति तु त्रिः स्त्रियां पुनः ॥ ७४२ ॥ पद्मिनी सरसीलक्ष्म्योः पद्मस्तम्बेऽथ पक्षिवाक् । द्वे खगे पण्डिते तु त्रिः पक्षवत्यथ पक्षिणी ॥ ७४३ ॥ पक्षाभ्यामिव याहोभ्यां रात्रिर्युक्तात्र सा स्त्रियाम् । प्राणास्तु पुंस्यसुष्वेके त्वस्मिन्नर्थे प्रचक्षते ॥ ७४४ ॥ बहुत्वमस्याथ बले वायुवायुविशेषयोः । द्वन्द्वानां प्रथमे साम्नि चक्षुरादीन्द्रियेषु च ॥ ७४१ ॥ शशाख्यभेषजेऽर्थे त्रिः पूर्णे क्लीत्रं तु पूरणे । त्रयी तु भाजने पात्री क्ली तु योग्ये सुगादिके ॥ ७४१ ॥ १. 'न्यो' क. घ. पाठ:. २. 'स्य' ङ. पाठ:. ४. 'तु' क. ख. घ. ङ. पाठ:. 'य' क. ख. घ. ङ. पाठः,