सामग्री पर जाएँ

पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्व्यक्षरकाण्डे नानालिङ्गाध्यायः । पाण्टिसंज्ञे तु पच्छी स्त्री भवेद् वारुटकान्तरे । पद्मं स्कन्ने त्रिषु क्ली तु जिह्वायां पद्रवाक् पुनः ॥ ७२३ ॥ पुंसि ग्रामनिवेशे त्रिः शून्ये पर्वस्तु ना हरे । इक्ष्वादीनां तु काण्डस्थग्रन्थिमध्ये नपुंसकम् ॥ ७२४ ॥ पर्विः काके द्वयोर्हिस्रे पुनस्त्रिषु पतिस्तु ना । पाणिग्राहे च पततिधातौ चाथाजयोऽब्रवीत् ॥ ७२१ ॥ गतौ मूलेऽप्यथो पत्नी भार्यायां स्त्री त्रि तु प्रभौ । बृद्धादिस्तु पतिर्यस्यास्तत्रान्यार्थसमासके || ७२६ ॥ वृद्धपत्नी वृद्धपतिरित्याद्यं रूपमुन्नयेत् । ग्रामादेश्च यदा स्व्यर्थः स्वामित्वेन विवक्ष्यते ॥ ७२७ ॥ ग्रामपत्नी ग्रामपतिरित्याद्यं तत्र च द्विधा । पत्तिः पुनः स्त्रियां ज्ञेया पतने पदनेऽपि च ॥ ७२८ ॥ एकेभैकरथञ्यश्वपञ्चपद्गबले तथा । लेपेन कृतलेखायां बाह्वादौ पतिके तु ना ॥ ७२९ ॥ पठिस्तु विदुषि त्रिः स्यान्ना तु वेदस्य पाठके । स्त्रियां फैलकिकायां स्यादल्पायां युद्धकारिणाम् ॥ ७३० ॥ पचिस्तु नामौ पचतौ बुभुक्षायां तु सा स्त्रियाम् । पणिस्तु वणिजि त्रि स्याद् धातौ ना पणनार्थके ॥ ७३१ ॥ पपीस्तु सूर्ये रश्मौ च ना हस्तिनि तु स द्वयोः । पटुः पुंसि पटोल्याख्यवल्लीजातौ रसान्तरे || ७३२ || लवणाख्ये तद्वति तु त्रिषु निर्व्याधिशूरयोः । अमन्ददक्षयोश्चान्ये विशदप्रज्ञ ऊचिरे || ७३३ ॥ अन्यो विस्पष्ट आचष्टे ब्रूते त्वजयशाब्दिकः । तीक्ष्णे च निस्त्वरे चैषु यदा व्यर्थेऽस्य वर्तनम् ॥ ७३४ ॥ १. 'ण्टी' ख. पाठः, 'ण्डि' ग. पाठः, २. 'ल्मि:' क. घ. पाठः क. प. पाठः. ४. 'दि' ख. ङ. पाठः, ५. 'पलहिका' ख. ङ. पाठः, ३. 'दाय स्वा'