न्यायलीलावती बुद्धिर्न ज्ञाततागम्या | तदभावेऽपि शशविषाणादिविकल्पो- त्पत्तेः । सम्बन्धिद्वयसम्बन्धेषु प्रत्येकं सामान्यालम्बनमिति चेत् । न, तथासत्यवस्तुविषयतानुपपत्तेः । तथासति कथं घटस्य ज्ञानमिति चेन्न । ज्ञाततापि कथमिति तुल्यत्वात् । आधाराधेय- न्यायलीलावतीकण्ठाभरणम् इदानीं भट्टाभिमतां शाततां प्रतिक्षिपति पुद्धेरिति । शशविषाणादीत्य. तीतानागतोपलक्षणम्, तत्राश्रयाभावे ज्ञातताधीनस्य (?) वाज्ञानानुमानं न स्यादित्यर्थः । नम्वतीतादिस्थले यत्र सम्बन्धिद्वयं नष्टं तत्र तत्स मावेशविद्यमान एव ज्ञातवाधीनं, यद्वा यत्र ज्ञानं शब्दादेव कः (१) विद्यमाने घढादावतीतेऽपि घटत्वादिसामान्यावलम्बनैव ज्ञात. तेति शङ्कते सम्बन्धिद्वयेति । एवं सत्यन्यत्राहितया ज्ञाततयाऽन्यत्र ज्ञातव्यवहारो न स्यादिति परिह+रति नेति । न+नु यदि ज्ञातताव्यस म्बन्धोऽयमस्य ज्ञानेन सह न स्यात्तदा घटस्य ज्ञानमिति कथं स्या. दिश्याह तथासतीति । यथा शाततायाः स्वभाव एव सम्बन्धस्तथा ज्ञान- न्यायलीलावतीप्रकाशः स्थयोः परस्परापेक्षया संयुक्तसंयोगबहुत्वाभावेन परत्वानुत्पत्तेश्च | ज्ञानमतीन्द्रियत्वाद साधारण कार्यानुमेयमसाधारणं च कार्ये शा. तताख्यं विषयवृत्तीति मतं निराकरोति बुद्धिरिति । शशविषाणादावि त्यादिशब्देनातीतादिविषयकसविकल्पक सङ्ग्रहः । शशविषाणादिधि- कल्पानामण्यनुभवोऽस्ति, न च तत्र तल्लिङ्गमिति किमनुमापकं स्था दित्यर्थः । सम्बन्धीति | शशो विषाणं समवायश्चेति त्रयं भासते तच्च विद्यमानमेवेति तन्निष्ठं तल्लिङ्गमनुमापकमित्यर्थः । तथासतीति | वि. षयस्य सत्वात् बाधाभावे भ्रमत्वानुपपत्तेरित्यर्थ: । ननु विषयविष यिभावान्यथानुपपत्या ज्ञानेन विषये धर्मः कश्चिदाधीयत इति कल्प्यत इत्याह तथासतीति । ज्ञाततायामसत्यामित्यर्थः | विषयाभा. वात्तत्रैव फलं नान्यत्रेत्यस्यापि नियमस्यानुपपत्तिरित्याह ज्ञाततापी. न्यायलीलावतप्रिकाशविवृतिः स्थयोः परस्परापेक्षयेति । पूर्वमेकापेक्षपरत्वमपरत्वं वा नोस्पद्यत इत्युक्तम धुना तूमयापेक्षं परत्वं नोभयत्र येन तथाप्रत्ययप्रसङ्ग इत्युभ्यत इति म पोनरुक्त्यम् । न च तत्र तलिङ्गमिति | समवायिकारणाभावेन ज्ञाततानुत्पतेरित्यर्थ: ।
पृष्ठम्:न्यायलीलावती.djvu/९४४
दिखावट