तात्पर्यञ्च ज्ञातं तदर्थप्रतीतिकारणम्, श्वेतो धावतीत्यादौ लक्षणायां च तथादर्शनात् । संसृष्टार्थपरत्वं चानन्यथासिद्धसंभूयोच्चारणादेवावधार्यत इति शब्दभंगः ।
न्यायलीलावतीकण्ठाभरणम्
चारः, योग्यताविरहेण तत्र हे तोरेवागमनात । भ्रान्तप्रतारकवाक्येऽपि ईश्वरसंसर्गज्ञानपूर्व्वकत्वान्न व्यभिचारः । ननु संसृष्टार्थपरत्वं संसृष्टार्थतात्पर्थ्यकत्वं तात्पर्थ्यञ्च ज्ञातमुपयुज्यत इति न हेतुविशेषणमुपपन्नमित्याह -- तात्पर्यञ्चेति । नानार्थस्थले लक्षणायां तज्ज्ञान कल्पनात् । ज्ञायमानकरणे ज्ञानोपयोगिव्यभिचारिवैलक्षण्यस्य तत्रापि सम्भवाच्चेत्यर्थः । ननु तथापि हेयमेतदित्याह संसृष्टार्थेति । सम्भुयोच्चारणस्य पचतीत्युक्ते प्रत्यक्षोपस्थितकलायादेरन्वयबोधाभावात्, अध्याहारे चान्वयबोधदर्शनात् हेतुत्वमिति भावः ।
न्यायलीलावतीप्रकाश:
वेदवदीश्वरस्यैव तत्र संसर्गज्ञानानुमानात् । ननु वाक्यार्थज्ञाने तात्पर्यज्ञानस्याहेतुत्वात् संसृष्टार्थपरत्वं न ज्ञातुं शक्यत इति विशेषणासिद्धिरित्यत आह - तात्पर्य चेति । तात्पर्यज्ञानं शाब्दज्ञानोपयोगि ज्ञायमानकरणे ज्ञानोपयोगिव्यभिचारिवैलक्षण्यत्वात् व्याप्तिवत् । अन्यथाऽन्य परादन्यान्वयबोधो न स्यात् । न च तात्पर्य ग्राहकप्रकारणत्वादेः प्राथमिकत्वादावश्यकत्वाच्च कारणत्वम्, तेषामननुगतत्वेनव्यभिचारात् तात्पर्यव्याप्यत्वस्याननुगमेऽपि सत्त्वात् । श्वेत इति । श्वित्री नेनेक्ति, श्वेतगुणयुक्तः पुरुषो द्रुततरं यातीत्यत्रार्थद्वये यत्र श्लेषस्तत्र तात्पर्यग्रहं विना अन्यतरनिश्चयाभावादित्यर्थः । लक्षणायां चेति । यष्टीः प्रवेशयेत्यत्र संसर्गेऽनुपपत्तिज्ञानाभावात्रान्वयानुपपत्तिज्ञानं लक्षणाबीजं किन्तु तात्पर्यानुपपत्तिज्ञानम्, साच तात्पर्ये ज्ञात | एव भवतीत्यर्थः । अनेकार्थे वाच्यत्वनिर्णयोऽपि तात्पर्यज्ञानं विनान स्यादित्यपि द्रष्टव्यम् । संसृष्टार्थेति । न च समभिव्याहारविशेषज्ञानं न हेतुः पचतत्युिक्ते अन्योक्तेन स्वयं वा स्मृतेन कलायपदे-
न्यायलीलावतीप्रकाशविवृतिः
वेति । अनाहार्यज्ञानमेव प्रमारूपमादाय तत्र साध्यसत्त्वमित्यपि मन्तव्यम् । संसृष्टार्थपरत्वमिति । विवक्षितहेतावपि तात्पर्य प्रवेशादिति भावः।