सामग्री पर जाएँ

पृष्ठम्:न्यायलीलावती.djvu/६०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५२९
न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोन्द्रासिता


काङ्क्षेण व्यभिचारः, तत्र संसृष्टार्थपरत्वस्यैवाभावात् ।


न्यायलीलावतीकण्ठाभरणम्

कांक्षादीनां च ज्ञातानामेव हेतुत्वम् । अन्यथा तद्भमे भ्रमानुदयः स्यात् । ज्ञायमान करणे ज्ञानोपयोगिव्यभिचारिवैलक्षण्यत्वाच्चाकांक्षादीनां व्याप्तिवज्ज्ञायमानतयैव हेतुत्वात् । प्रतारकवाक्ये च न व्यभि-

न्यायलीलावतीप्रकाशः

व्यभिचारिवलक्षण्यात व्याप्तिवत् ज्ञानोपयोगित्वसाधनात् । न चाप्रयोजकत्वम, आकांक्षाद्यसत्वेऽपि तद्भमेण संसर्गप्रत्ययात्, अन्यथा शब्दाभासोच्छेदापत्तेः । ज्ञानावच्छेदकतया च संसर्गसिद्धिः, ज्ञानज्ञानस्य तद्विषयविषयत्वात् । संसर्गे च सम्बन्धिन एव विशेषत्वात् पक्षधर्मताबलेन व्यापकत्वेनागृहीतस्यापि संतर्गविशेषस्य सिद्धिः । न चैवं भ्रान्तिज्ञानमपि भ्रमः स्यात् । न ह्यसद्विषयत्वेन भ्रमत्वं भ्रमविषयाणां सत्त्वात्, किन्तु व्यधिकरणप्रकारकत्वेन । न च भ्रमस्य ज्ञाने व्यधिकरणप्रकारकत्वं, रजतत्वप्रकारकत्वस्य भ्रमे सत्वात् । अन्यथा मानाभावाद्भ्रमोच्छेदापत्तेः । न च प्रतारकवाक्ये व्यभिचारः, तत्र विशेषदर्शनेन संसर्गज्ञानाभावादिति वाच्यम् । तत्र संसर्गे योग्यताविरहात् । अत एव विसंवादिवाक्ये शुकवदुच्चरिते न व्यभिचारः, संसगंधीस्तत्र योग्यता भ्रमात् । न च भ्रान्तप्रतारकवाक्ये व्यभिचारः, कथं वा तत्र संसर्गप्रमा वक्तृज्ञानानुमानासम्भवादिति वाच्यम्।

न्यायलीलावतीप्रकाशविवृतिः

नोयोगे च व्यभिचार इति चरमपदम् । तयोश्च भ्रमेऽपि हेतुत्वम् । व्याप्ते: शब्दशक्तेश्च प्रमामात्र हेतुत्वमेव । न हि तयोर्भ्रमेऽपि हेतुत्वं, तदभावेऽपि भ्रमोत्पत्तेरिति न दृष्टान्तासिद्धिः । आकाङ्क्षरेपि न भ्रमहेतुत्वं तदभावेऽपि तदुत्पत्तेरिति न स्वरूपासिद्धिरिति भावः । अन्यथेति । आकाङ्क्षादिभ्रमजन्यशाब्दभ्रमानुपपत्तरित्यर्थः । ज्ञानज्ञानस्येतित विषयग्राहकसामग्रीसहकृत सामग्रीजन्यस्येत्यर्थः । रजतत्वप्रकारत्वस्येति । प्रकारत्वेन सम्बन्धेन रजतत्वस्येत्यर्थः । अन्यथेति । भ्रमविषयत्वेन भ्रम इत्यर्थः । तत्र विशेषेति । आहार्यज्ञानस्य प्रमात्वात् साध्यस्य च प्रमाघटितत्वादित्यर्थः । योग्यताश्रमादिति । लिङ्गभ्रमाल्लैङ्गिको भ्रम इत्यर्थः । कथं वेति । भवन्मते शब्दस्याप्रमाणत्वादिति भावः । ईश्वरस्यै-