उपमानं च न मानान्तरम् अनुमानादेव तदर्थसिद्धे । यो यत्रासति वृत्त्यन्तरे प्रयुज्यते स तस्य वाचको यथा गोशब्दो गो-
न्यायलीलावतीकण्ठा भरणम्
गवयत्वेन प्रवृत्तिनिमित्तेन गवयपदवाच्योयमिति पराभिमतोपमानफलमनुमानादेव भवतीति नोपमानं प्रमाणान्तरमित्याह उपमानमिति । तदेवानुमानमाह यो यत्रेति । गवयपदेऽव्युत्पन्नं नागरिकं प्रत्यारण्यकेन गोसदृशो गवय इति प्रयुक्ते वनं गतस्य गवयपिण्डं प्रत्यक्षयतो नागरस्यातिदेशवाक्यं स्मरतोऽनुमानमुदेति - गवयपदं गवयत्वविशिष्टतत्पिण्डवाचकम् असति वृत्त्यन्तरे तदभियुक्ते नात्र प्रयुज्यमानत्वादिति । व्यातिपक्षधर्मतयोरेव प्रयोजकत्वमित्यभिन्धाय तदुपदर्शनाय उदाहरणोपनययोरेव प्राप्तौ प्रतिभासमान जातीय इति प्रत्यक्षक्रियमाणपिण्डविशेष इत्यर्थः । ननु असति वृत्त्यन्तरे इत्यसिद्धमित्य-
न्यायलीलावतीप्रकाशः
नोपस्थिते कलाये कलायं पचतीत्यन्वयबोधाभावात्तज्ज्ञानस्यापि हेतुत्वादिति ।
गोसदृशो गवय इत्याप्तवाक्यं स्मरतो गोसादृश्याश्रयं च पिण्डं प्रत्यक्षयतो गवयत्वविशिष्टोऽयं धर्मी गवयशब्दवाच्य इति भवति मतिस्तत्र वाक्यार्थस्मृतिसहायं साहश्यज्ञानं करणमित्युपमानं मानान्तरमिति मतमास्कन्दति -- उपमानं चेति । ननु वृत्त्यन्तरं विना प्रयोगः शक्तिमज्ञात्वा ज्ञातुमशक्य इति विशेषणासिद्धिः, गोसदृशो
न्यायलीलावती प्रकाशविवृतिः
तेषामिति । न च तात्पर्यव्याप्यत्वेनानुगमः, तथा सति प्रथमोपस्थित्या तात्पर्यज्ञानस्यैव कारणत्व सम्भवात् | तज्ज्ञानस्येति । सम्भूयैकार्थप्रतिपादकत्वज्ञानस्येत्यर्थः । अत्राकाङ्क्षादिज्ञानं शब्दप्रामाण्यवादिनापि पूर्व वाच्यम, व्याप्तिज्ञानन्तु क्लृप्तस्यैव प्रामाण्य सम्भव लाघवेन कल्पनीयम् । न च योग्यतासंशयस्थले न लिङ्गनिश्चय इति नानुभितिसामग्री, शब्दज्ञानसामग्री योग्यतासंशयघटिता तत्राध्यस्तीति वाच्यम् । प्राह्य संशयपर्यवसन्नलिङ्ग विशेषणसंशयस्यानुमित्यनुकूलतया ताशसंशयस्यैव प्रतिबन्धकत्वादिति रहस्यम् ॥
अप्रसक्तप्रतिषेधमाशङ्कया गोसदृश इति । ननु गवयत्वप्रवृत्ति-