तमेवमुक्त्वा देवेशास्त्रिदिवं पुनरभ्यगात् ।
विश्वामित्रो महातेजा भूयस्तेपे महत्तपः ॥ ३ ॥
ततः कालेन महता मेनका परमाऽप्सराः ।
पुष्करेषु नरश्रेष्ठ ! स्नातुं समुपचक्रमे ॥ ४ ॥
परमा-रूपादितः सर्वोत्तमा ।[१]अप्सरश्शब्द एकवचनान्तोऽप्यस्ति ॥ ४ ॥
तां ददर्श महातेजा मेनकां कुशिकात्मजः ।
रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा ॥ ५ ॥
दृष्ट्वा कन्दर्पवशगो मुनिस्तामिदमब्रवीत् ।
अप्सरः ! स्वागतं तेऽस्तु वस चेह ममाश्रमे ॥ ६ ॥
अनुगृह्णीष्व, भद्रं ते, मदनेन सुमोहितम् ।
अनुगृह्णीष्वेति । काममोहखिन्नस्य मे अनुकूला मत्तापं शमयेति यावत् ॥ ६ ॥
इत्युक्ता सा वरारोहा तत्र वासमथाकरोत् ।
तपसो हि महाविघ्नो विश्वामित्रमुपागतः ॥ ७ ॥
तस्यां वसन्त्यां वर्षाणि पञ्च पञ्च च राघव !
विश्वामित्राश्रमे राम ! सुखेन व्यतिचक्रमुः ॥ ८ ॥
वरारोहा-उत्तमस्त्री । उपागत इति । तयेति शेषः । पञ्च पञ्च चेति । दशवर्षाणीति यावत् । 'षड्भ्यो लुक्' इति जसो लुक् ॥
- ↑ अप्सरा इत्यार्षं-ति. 'स्त्रियां बहुष्वप्सरसः' इति कोशात् अप्सश्शब्दस्य नित्यबहुवचनान्तत्वमाशङ्क्याह-अप्सरश्शब्द इति ।