भूषास्विति। ते तद् जगत्कारणभूतम् अद्वितीयं परब्रह्माख्यं वपुः स्वरूपम् (अधुना) अद्यापि जगतः स्थितिकालेऽपि जगति[१] जगद्विषये स्फुरति । नन्विदं ब्रह्मेति कस्यापि नानुभव इत्यत्राह — तत्त्व इति । तत्त्वे परमार्थे सञ्चिन्त्यमाने विचार्यमाणे । ब्रह्म उपादानं, जगत् तत्कायें, कार्यकारणयोरनन्यत्वं च शास्त्रे स्थितम् इत्यनुसन्दधतो ब्रह्मैवेदं सर्वमिति स्फुरणं सम्भवत्येवेति भावः । अत्र दृष्टान्तमाह --- भूषास्विति । कटककुण्डलादिषु यथा स्वर्णे स्फुरति, यथा वा घटशरावादिके मृत्ति का, स्वर्णादिभिः[२] क्रियमाणेषु कार्येषु कटकादिषु स्वर्णमेवेदमित्यनुभवरूपा प्रतीतिरुदेति, तद्वदित्यर्थः । किञ्च, विद्यालाभे ब्रह्मज्ञाने सति अविद्यास्तमयात् स्फुटं विकसेदपि प्रपञ्चाकारपरित्यागेनाखण्डं ब्रह्मेति प्रकाशेत चेत्यर्थः । अत्र दृष्टान्तः– स्वप्नेति । स्वप्नेद्रष्टुः प्रबोधे सति यद्वदज्ञानकल्पितप्रपञ्चलयः, यद्वच्च दीपादिना तिमिरलयविधौ जीर्णरजोर्ज्ञानेन तदज्ञानकल्पितसर्पलयः, तथैवेत्यर्थः । हे कृष्ण ! यस्य ते वपुरुक्तप्रकारेण विकसेत्, तस्मै नमस्ते इति योजना ॥ ७॥
एवं सप्रपञ्चनिष्प्रपञ्चभेदेन तत्स्वरूपं स्तुत्वा सर्वनियन्तृत्वेन स्तौति -
यद्भीत्योदेति सूर्यो दहति च दहनो वाति वायुस्तथान्ये |
यद्भीत्येति । यस्माद् भीत्या सूर्य उदेति । उचितबलीन् यथाधिकारं विहिताः पूजा आहरन्ते प्रयच्छन्ति । ते पद्मजाद्याः येन प्राङ् निजपदं सत्यलोकादि आरोपिताः प्रापिताः, पश्चाद् द्विपरार्धाद्यवसाने येन च्यावितारः च्युतिं प्रापिताश्च भविष्यन्ति, तस्मै विश्वं नियन्त्रे ब्रह्मादीनामपि नियामकाय सर्वेश्वराय वयमपि भवते हे कृष्ण ! प्रणामं कुर्मः ॥ ८ ॥