फलशालित्वलक्षणमुख्यकर्तृत्वं विना प्रकृतिमुखेनेश्वरस्य जगत्कर्तृत्वमिति भावः ।
हे कृष्ण ! य एवं, तस्मै ते नमोऽस्तु ॥ ५ ॥
ननु केयं मूलप्रकृतिरित्याशङ्कय सदसत्त्वाभ्यामनिर्वचनीया विद्याविद्यात्मिकेश्वर[१]स्य शक्तिरित्याह ----
सत्वेनासत्तया वा न च खलु सदसत्त्वेन निर्वाच्यरूपा |
सत्त्वेनेति । यस्येयमविद्या तज्ज्ञाने सति निवर्तते । अतः सतीति वक्तुमशक्या, सत्तास्फूर्त्यनुपपत्तेः । नासती च, एकैव सती असती चेति नितरामनुपपन्ना विरोधात् । अतोऽविद्या सत्त्वेनासत्तया सदसत्त्वेन वा न निर्वाच्यरूपा निष्कृष्य वक्तुमशक्यं स्वरूपं यस्याः सा तथा । तर्हि नास्तीति चेद्, नेत्याह— असाविति । ‘अहमज्ञ’ इति सर्वानुभवसिद्धतया तदनवकल्पनमशक्यमिति भावः । यासावविद्या गुणफणिमतिवद् रज्जुसर्पभ्रान्तिवद् विश्वदृश्यस्य सकलजगतः अवभासं जीवस्य संसार दु:खनिवासभूतं शरीराद्यहम्ममाभिमानादिरूपं धत्ते करोतीत्यर्थः । यस्येश्वरस्य कृपायाः स्यन्दः प्रवाहः, तस्य लाभे सति सैव अविद्या श्रुतिवचनलवैः वेदान्तवाक्यलेशैः, श्रवणमात्रेणेत्यर्थः, विद्यात्वं याता विद्यारूपिणी भूत्वा संसाररूपस्यारण्यस्य वनस्यातिनिशिततया सद्यः शीघ्रं त्रुटने खण्डने परशुतामेति, तस्मै नमस्ते ॥ १ ॥
एवं प्रकृत्यधिष्ठितस्य ब्रह्मणो जगत्कारणत्वमुक्तम् । अथ तदनन्यत्वेन जगदात्म [२]त्वमुच्यते---
भूषासु स्वर्णवद् वा जगति घटशरावादिके मृत्तिकावत् |