परि विष्णुलोके विष्णुमन्दिरं, तदुपरि शि[१]वलोके शिवमन्दिरमिति । तत्रस्थाः
सृष्टिस्थितिसंहारकर्तारस्त्रिमूर्तयः । तेभ्योऽप्यूर्ध्वं तु ब्रह्माण्डाद् बहि: । अत एव
मायाविकृतयः महदहङ्कारादयः षोडशविकाराः, तैर्विरहितः शुद्धसत्त्वगुणमयो
वैकुण्ठलोको भाति । तत्र वैकुण्ठलोके कारणाम्भसि आवरणोदके पशुपकुले नन्दगेहेऽपि त्वं शुद्धसत्त्वैकरूपी तत्स्वच्छतयावरणाभावात् सच्चिद्ब्रह्माद्वयात्मा सच्चिदानन्दाद्वयब्रह्मवपुरेव त्वम् । अतः सर्वरोगान्मां पाहि मोचयेति ॥१०॥
इत्युत्तमभक्तिप्रार्थनावर्णनं मार्कण्डेयस्य प्रलयप्रदर्शनवर्णनं, परमेश्वरप्रसादवर्णनं च
सप्तनवतितमं दशकम् ।
एवं स्तुत्यस्य विष्णोर्निष्कलत्वं प्रसाध्य तद्रूपेण स्तौति ---
यस्मिन्नेतद् विभातं यत इदमभवद् येन चेदं य एतद् |
यस्मिन्निति । हे कृष्ण ! तस्मै सच्चिदानन्दस्वरूपाय ते नमः । ननु स्तूयतां, किं नमस्कारमात्रेणेत्यत्राह — यस्येति । देवा मुनीन्द्रा अपि यस्य तत्त्वरूपं, तदिति सर्वनाम, सर्वे च ब्रह्म, तस्य भावस्तत्त्वं ब्रह्मत्वं, तद्रूपं न विदुः । के पुनरत्र वयं ज्ञातुं स्तोतुं वेति भावः । दुर्जेयत्वमेवाह—यो वाचामिति । लौकिकानां वैदिकानामपि वचसां दूरदूरे, वाच्यवाचकसम्बन्धाभावात् । पुनर्मनसामपि दूरदूरे । अत्र हेतुः --- यस्य भासा चिच्छक्त्या सकलमिदं जगद् भासितं प्रकाशितम्। यत्प्रकाशेन लब्धसत्ताकं मनआदि, तेन तत्प्रकाशनमशक्यमित्यर्थः । तर्हि ज्ञातुमशक्यत्वादसदेवेदमित्यत्राह — यस्मिन्निति । यस्मिन्नधिष्ठाने एतद् जगद् विभातं तिष्ठति । यतो निमित्तोपादानकारणभूतादिदं जगदभवत् । येन इदं जगद्, चकारादैक्यं याति लीयत इत्यर्थः । अतो जगत्कारणत्वाद् एतद् जगद् यः यद्रूपः ईश्वर एव जगदात्मना भाति । अतो जगदात्मना प्रतीतस्य सिद्धौ न प्रमाणान्तरापेक्षेति भावः । नन्वीश्वरस्य जगदात्मत्वे विकारित्वप्रसङ्ग
- ↑ 'पुरभिल्लोके पुरभित्पुरमि' क. ग. पाठ:.