पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ९८]
३५९
सत्यज्ञानादिस्वरूपाद् ब्रह्मणो जगदुत्पत्त्यादिनिरूपणम् ।


इति चेद्, नेत्याह—योऽस्मादिति । अस्माद् आत्मन्यविद्या कल्पिताज्जगतः उत्तीर्णं व्यतिरिक्तं रूपं यस्य ॥ १ ॥

एवमीश्वरस्य जगत्कारणत्वमुपपाद्य अनन्तरं जगदनुग्राहकत्वमाह-

जन्माथो कर्म नाम स्फुटमिह गुणदोषादिकं वा न यस्मिन्
 लोकानामृतये यः स्वयमनुभजते तानि मायानुसारी ।
विभ्रच्छक्तीररूपोऽपि च बहुतररूपो[१]ऽवभात्यभ्दुत्तात्मा
 तस्मै कैवल्यधाम्ने पररसपरिपूर्णाय विष्णो ! नमस्ते ॥ २ ॥

 जन्मेति । जन्म श्रीकृष्णाद्यवतारः अथो अनन्तरं कर्म कंसहननादि नाम जन्मकर्मनिमित्तम् । गुणदोषाः निग्रहानुग्रहादयः । आदिशब्देन पुत्रमित्रादयः । एतानि यस्मिन् स्फुटं परमार्थतो न सन्ति, तथापि लोकानामूतये जगदनुग्रहाय मायानुसारी तानि जन्मकर्मादीनि स्वयम् अनन्याधीनस्वभावः सन् अनुभजते अङ्गीकरोति अपिच शक्तीः विद्याविद्याज्ञानैश्वर्यादिलक्षणाः बिभ्रत् स्वयमरूपो निर्गुणोऽपि स्थावरजङ्गमभेदेन सुरनरतिर्यगादिभेदेन च बहुतररूपश्चावभाति, अतोऽद्भुतात्मा आश्चर्यस्वरूपः, तस्मै जगदनुग्राहकाय पररसेन परमानन्देन परिपूर्णाय अत एव कैवल्यधाम्ने मोक्षप्रदाय ॥ २ ॥

 ननु बहुतररूपत्वे कथमरूपत्वमित्याशङ्कय तत्स्वरूपस्य सर्वद्वैतनिषेधावधित्वेनोपपादयति -

नो तिर्यञ्चं न मर्त्य न च सुरमसुरं न स्त्रियं नो पुमांसं
 न द्रव्यं कर्म जातिं गुणमपि सदसद् वापि ते रूपमाहुः ।
शिष्टं यत् स्यान्निषेधे सति निगमशतैर्लक्षणावृत्तितस्तत्
 कृच्छेणावेद्यमानं परमसुखमयं भाति तस्मै नमस्ते ॥ ३ ॥


  1. 'पो विभा' क. ग. पाठः.