इति चेद्, नेत्याह—योऽस्मादिति । अस्माद् आत्मन्यविद्या कल्पिताज्जगतः उत्तीर्णं व्यतिरिक्तं रूपं यस्य ॥ १ ॥
एवमीश्वरस्य जगत्कारणत्वमुपपाद्य अनन्तरं जगदनुग्राहकत्वमाह-
जन्माथो कर्म नाम स्फुटमिह गुणदोषादिकं वा न यस्मिन् |
जन्मेति । जन्म श्रीकृष्णाद्यवतारः अथो अनन्तरं कर्म कंसहननादि नाम जन्मकर्मनिमित्तम् । गुणदोषाः निग्रहानुग्रहादयः । आदिशब्देन पुत्रमित्रादयः । एतानि यस्मिन् स्फुटं परमार्थतो न सन्ति, तथापि लोकानामूतये जगदनुग्रहाय मायानुसारी तानि जन्मकर्मादीनि स्वयम् अनन्याधीनस्वभावः सन् अनुभजते अङ्गीकरोति अपिच शक्तीः विद्याविद्याज्ञानैश्वर्यादिलक्षणाः बिभ्रत् स्वयमरूपो निर्गुणोऽपि स्थावरजङ्गमभेदेन सुरनरतिर्यगादिभेदेन च बहुतररूपश्चावभाति, अतोऽद्भुतात्मा आश्चर्यस्वरूपः, तस्मै जगदनुग्राहकाय पररसेन परमानन्देन परिपूर्णाय अत एव कैवल्यधाम्ने मोक्षप्रदाय ॥ २ ॥
ननु बहुतररूपत्वे कथमरूपत्वमित्याशङ्कय तत्स्वरूपस्य सर्वद्वैतनिषेधावधित्वेनोपपादयति -
नो तिर्यञ्चं न मर्त्य न च सुरमसुरं न स्त्रियं नो पुमांसं |
- ↑ 'पो विभा' क. ग. पाठः.