पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम्- ९७]
३५७
मार्कण्डेयस्य परमेश्वरप्रसादवर्णनम् ।


पुनश्च बहिरनुपतितः त्वाय पिहिततनौ अन्तर्हिते सति स्वाश्रमे पुष्पभद्रातीरे प्राग्वद् यथास्थानं स्थितश्चासीत् । अत्र च मायायाः स्वरूपतः प्रदर्शनस्याशक्यत्वाद् भगवता कार्यमुखेन दर्शितेति द्रष्टव्यम् ॥ ८ ॥

 अथ विष्णुभक्त्या सन्तुष्टस्य शिवस्यानुग्रहप्रकारमाह---

गौर्या सार्धं तदग्रे पुरभिदथ गतस्त्वत्प्रियप्रेक्षणार्थी
 सिद्धानेवास्य दत्त्वा स्वयमय मजरामृत्युतादीन् गतोऽभूत् ।
एवं त्वत्सेवयैव स्मररिपुरपि स प्रीयते येन तस्मा-
 न्मूर्तित्रय्यात्मकस्त्वं ननु सकलनियन्तेति सुव्यक्तमासीत् ॥ ९ ॥

 गौर्येति । तस्य मार्कण्डेयस्य अग्रे पुरतः । अस्य स्वयं सिद्धान् स्वतपः- प्रभावेणैव प्राप्तान् अजरामृत्युतादीन्, आदिशब्देन विष्णुभक्तियशोज्ञानविज्ञानपुराणाचार्यतादीन् वरान् दत्त्वा अयं शिवः गतोऽभूत् । अनेन च विष्णोः सर्वेश्वरत्वं सिद्धमित्याह — एवमिति । त्वं विष्णुः सकलनियन्ता सर्वेश्वर इति सुव्यक्तं निश्चितमासीत् । अत्र हेतुः— मूर्तित्रय्यात्मकस्त्वं नन्विति । मूर्तित्रयी ब्रह्मविष्णुगिरीशाः तदात्मकः तत्स्वरूपः । अत्र हेतुः - त्वत्सेवयेति । स स्मररिपुरपि त्वत्सेवयैव प्रीयते येन तस्माद् विष्णोरेव कार्यनिमित्तमवस्थाभेदो मूर्तित्रयमित्यभिप्रायः ॥ ९ ॥

 ननु शिवस्यावस्थाभेद इति किं न स्यादित्याशङ्क्य स्थानभेदेन विष्णोस्तेभ्यो व्यतिरेक ऐक्येऽपि सम्भवतीत्याह----

त्र्यंशेऽस्मिन् सत्यलोके विधिहरिपुरभिन्मन्दिराण्यूर्ध्वमूर्ध्व
 तेभ्योऽप्यूर्ध्वं तु मायाविकृतिविरहितो भाति वैकुण्ठलोकः ।
तत्र त्वं कारणाम्भस्यपि पशुपकुले शुद्धसत्त्वैकरूपी
 सच्चिद्ब्रह्माद्वयात्म पवनपुरपते! पाहि मां सर्वरोगात् ॥ १० ॥

 त्र्यंश इति । त्रयो ब्रह्मविष्णुशिवलोकरूपा अंशा लोकाः यस्मिन् स त्र्यंशः, तस्मिन् सत्यलोके ऊर्ध्वमूर्ध्वमिति प्रथमं ब्रह्मलोके विधिमन्दिरं, तदु-.