सामग्री पर जाएँ

पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५६
[स्कन्धः - १२
नारायणीये


 प्रीत्येति । तत्तपसा जातेन प्रसादेन नरसखो नारायणाख्यस्त्वमस्य पार्श्व प्राप्तवान् । अथ अनन्तरं स तु तुष्ट्या तोष्टूयमानः पुनः पुनरतिशयेन वा स्तुतिं कुर्वन् त्वया विविधैर्वरैः प्रलोभितो नानुमेने न तान् वरानवृणोत् । अत्र हेतु:- भक्तितृप्तान्तरात्मेति । भक्त्या तव भजनेनैव तृप्तः पूर्णः अन्तरात्मा मनो यस्य । किञ्च, त्वदीयां मायां द्रष्टुमवृणोच्च । को[] हि नाम दुःखदात्रीं मायां वृणुयात् । अतोऽस्मिन्नसम्भावनीयमेतदिति किलशब्दा[]र्थः । अथवा माय[]या यद् दुःखं, तदनभिज्ञो जन्मप्रभृति । अत आश्चर्यहेतोः अननुभूतस्य दर्शने ह्याश्चर्यं भवति[], अतः तदपि मायादुःखमपि मृगयते अनुबुभूषति नूनम् इति तर्कयामि ॥ ६ ॥

याते त्वय्याशु वाताकुलजलदगलत्तोयपूर्णातिघूर्ण-
 त्सप्तार्णोराशिमग्ने जगति स तु जले सम्भ्रमन् वर्षकोटीः ।
दीन: मैक्षिष्ट दूरे वटदलशयनं कञ्चिदाश्चर्यबालं
 त्वामेव श्यामलाङ्गं बदनसरसिजन्यस्तपादाङ्गुलीकम् ॥ ७ ॥

 यात इति । त्वयि नरनारायणाख्ये आशु तस्य माया[]दर्शन[]प्रार्थनानन्तरमेव याते बदरिकाश्रमं प्रति गते सति । वातेन आकुलेभ्यः इतस्ततश्चालितेभ्यो जल- देभ्यो गलता तोयेन पूर्णैः अत एव अतिघूर्णद्भिः उपर्युपरि प्रसर्पद्भिः सप्तार्णोराशिभिः जगति मग्ने स ति स तु मार्कण्डेयः वर्षकोटी: जले सम्भ्रमन् दीनो वटदलशयनं कञ्चिदाश्चर्यबालं दूरे प्रैक्षिष्ट ॥ ७ ॥

दृष्ट्वा त्वां हृष्टरोमा त्वरितम[]भिगतः स्प्रष्टुकामो मुनीन्द्रः
 श्वासेनान्तर्निविष्टः पुनरिह सकलं दृष्टवान् विष्टपौघम् ।
भूयोऽपि श्वासवातैर्वहिरनुपतितो वीक्षितस्त्वत्कटाक्षै-
 र्मोदादाश्लेष्टुकामस्त्वयि पिहिततनौ स्वाश्रमे प्राग्वदासीत् ॥ ८ ॥

 दृष्ट्वेति । श्वासेनान्तः प्रविष्टो विष्टपौघं चतुर्दशभुवनात्मकं जगद् दृष्टवान्।


  1. 'को नाम दुःखदां मा' ख. पाठः.
  2. 'या' क. पाठ:.
  3. 'र्थः । आ' ख. पाठ:.
  4. 'ति यतः, अ' क. पाठ:.
  5. 'यात्रा' क. पाठ:.
  6. 'नवरणान' ख. पाठ:.
  7. 'मुपग' ग. घ. ड. च. पाठ:.