पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अथ द्वादशस्कन्धपरिच्छेदः ।


मुक्तानां सच्चिदानन्दब्रह्मरूपतया स्थितिः ।
द्वादशस्था हरेर्लीला सम्प्रति प्रतिपाद्यते ॥

 इदानीं मार्कण्डेयकथाप्रसङ्गेन तस्य तपसा विष्णुमायाशिवदर्शनादिचरित्रकथनमिषेणाधिकारिणो योगत्रयेण ब्रह्म प्राप्तस्य ब्रह्ममात्रतयावस्थानं निरूप्यते---

मार्कण्डेयश्चिरायुः स खलु पुनरपि त्वत्परः पुष्पभद्रा-
 तीरे निन्ये तपस्यन्नतुलसुखरतिः षट् तु मन्वन्तराणि ।
देवेन्द्रः सप्तमस्तं सुरयुवतिमरुन्मन्मथैर्मोहयिष्यन्
 योगोष्मनुष्यमाणैर्न तु पुनरशकत् त्वज्जनं निर्जयेत् कः ॥ ५ ॥

 मार्कण्डेय इति । स खलु पुनरपि चिरायुष्ट्वे लब्धेऽपि त्वत्परो भगवद्भजनपरोऽभूत् । अत्र हेतुः—अतुलमुखरतिरिति । निरतिशय सुखरूप[१] त्वद्भजने रतिः श्रद्धा यस्य सः पुष्पभद्रातीरे हिमवदुत्तरपार्श्वे यस्यास्तीरे चित्रशिला नाम शिला भद्रवटो नाम वटश्चास्ति, तस्याः पुष्पभेद्रानामनद्यास्तीरे तपस्यन्नेव षड् मन्वन्तराणि एकसप्ततिचतुर्युगलक्षणानि निन्ये । देवेन्द्रः सप्तम इति मन्वन्तरेष्विन्द्रादीनां व्यत्यासं दर्शयति । सप्तमे मन्वन्तरे यः सप्तमो देवेन्द्रः सोऽयं तपसा स्वधाम जिघृक्षतीति भिया तं मार्कण्डेयं सुरसुवतिभिः अप्सरोभिः मरुता वासन्तेन मारुतेन मन्मथेन च मोहयिष्यन् योगस्य तपस ऊष्मणा प्ठुष्यमाणैः दह्यमानैस्तैः सुरयुवत्यादिभिः न तु पुनरशकत् तं मोहयितुमशक्तोऽभूत् । त्वजनं त्वद्भक्तं को निर्जयेद् न कोऽपि । अहो मोहो देवेन्द्रस्यापीति भावः ॥ ५ ॥

प्रीत्या नारायणाख्यस्त्वमथ नरसखः प्राप्तवानस्य पार्श्व
 तुष्टया तोट्र्यमानः स तु विविधवरैर्लोभितो नानुमेने ।
द्रष्टुं मायां त्वदीयां किल पुनरवृणोद् भक्तितृप्तान्तरात्मा
 मायादुःखानभिज्ञस्तदपि मृगयते नूनमाचर्यहेतोः ॥ ६ ॥


  1. पं त्वद्भजनमिति तत्रैव र क. ग. पाठः