मार्कण्डेयो हि पूर्वं गणकनिगदितद्वादशाब्दायुरुच्चैः |
तं चैनमिति । तं पूर्वोक्तम् एन[१]म् उपसंहृतं भक्तियोगं साध्यसाधनरूपं द्रढयितुं किञ्चिदारब्धं स्थिरीकर्तुम् अयि ! भगवन् ! मे मम आरोग्यं बाह्यान्तररोगराहित्यम् आयुश्च साध्यम् । तत्र आयुरारोग्यनिमित्तमपि तव चरणं मया सेव्यम् । अहो दिष्ट्या साधनस्यापि सुखरूपत्वादहं कृतार्थो जातः । भेषजाय दुग्धमिव यथा सन्निपातज्वरादिनिवृत्तथे पयः पातव्यं भवति, तथेत्यर्थः । नन्वायुषः प्रारब्धकर्मनियमितत्वात् तदधिकस्य लाभः प्रार्थनयापि[२] न सम्भाव्यते इत्याशङ्कय मार्कण्डेयदृष्टान्तेन परिहरति - मार्कण्डेय इति । ननु तस्य चिरायुष्ट्वं प्राक् कल्पितं न तु भगवत्सेवया लब्धमिति चेद्, नेत्याह —गणकेति । गणकेन जातककोविदेन निगदितम् उक्तं द्वादशाब्दायुः यस्य स पुनः 'अत्युत्कटैः पुण्यपापैरिहैव फलमश्नुत' इति न्यायेन संवत्सरं त्वाम् उच्चैस्तीत्रेण समाधियोगेन सेवित्वा द्वादशाब्दान्ते आत्मानं नेतुमागतं पाशदण्डहस्तं मृत्युम् अन्तकं तत्कालोपनतैः तव भटनिवहैः विष्णुदूतैः द्रावयामास पलायनमकारयत् ॥ ४ ॥ ६४ ॥
इति नारायणीयस्तोत्रव्याख्यायां
भक्तप्रियाख्यायाम्
एकादशस्कन्धपरिच्छेदः ।
आदितः क्ष्लोकसङ्ख्या ९९८.