एतच्च त्रितयं मनुष्यशरीरसाध्यामिति तत्प्राप्तौ न कालक्षेपः कर्तव्य इत्यभिप्रायेणाह-
ज्ञानं खद्भक्ततां वा लघु सुकृतवशान्मर्त्यलोके लभन्ते |
ज्ञानमिति । त्वद्भक्ततां वा लघु अनायासेन | दैवात् सुकृतेन भवजलनिधौ पोतवदाचरिते आविष्टं प्रविष्टं तु तरणोपायविधुरं मां गुरुमुपदेष्टारं कर्णधारं नाविकं कृत्वा त्वं वातालयेशः स्वयमनुगुणवातवदाचरन् तारयेथाः पारं नय ॥ ५ ॥
तत्र साधनेषु भक्तिरेव सुगममार्ग इत्याह-
अव्यक्तं मार्गयन्तः श्रुतिभिरपि नयैः केवलज्ञानलुब्धाः |
अव्यक्तमिति । केवलज्ञाने लुब्धाः केवलं ज्ञानलुब्धा वा श्रुतिभिरूपनिषद्भिः नयैः मीमांसोक्तयुक्तिभिरपि अव्यक्तं ब्रह्म मार्गयन्तः विचारयन्तः अतीव क्लिश्यन्ते । बहुतरजनुषामन्त एव सिद्धिं फलमाप्नुवन्ति । कर्मयोगोऽपि च परमफले परमपुरुषार्थे मोक्षे दूरस्थः कालान्तर एव फलप्रदः क्लेशरूपश्च । पितृलोकसत्यलोकावाप्त्यादिरूपेण त्ववान्तरफलेन दूरस्थः । भक्तियोगस्त्वामूलात् श्रवणकीर्तनादिक्रमेणारम्भात् प्रभृत्येव हृद्यः त्वरितं भवत्प्रापकश्च । अयि भगवन् । मम स एव वर्धताम् ॥ ६ ॥
उक्तमर्थे सदाचारप्रमाणेन द्रढयति-
ज्ञानायैवातियत्नं मुनिरपवदते ब्रह्मतत्त्वं तु शृण्वन् |