पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४८
[स्कन्धः -- ११
नारायणीये


अनेन प्रकारेण लभन्ते प्राप्नुवन्ति । ब्रह्मणस्तटस्थलक्षणमाह - विश्वमूलमिति । जग ज्जन्मादिकारणमित्यर्थः । तदुपपादयति — अखिलपदार्थेप्विति । भिन्नेषु स्वभावतः पृथग्भूतेषु अखिलपदार्थेषु स्वसृष्ठेषु कार्येषु अभिन्नं कारणरूपेणैकत्वेन स्थितं, कटककुण्डलादौ सुवर्णवत् । ननु तद्वत्सच्चिदानन्दं ब्रह्म स्वसृष्टेषु कार्येषु न दृश्यत इति चेद् दृश्यत एवेत्याह — सत्तेति । येयं भिन्नेषु घटपटादिषु घटः सन् पटः सन्नित्येकरूपा सत्ता प्रतीयते, या च भिन्नेष्वभिन्ना घटोऽयं पटोऽयमिति स्फूर्तिज्ञानमेकरूपं प्रतीयते, यच्च भिन्नेषु स्रक्कन्दनादिषु अभिन्नं प्रियत्वम् आनुकूल्यं सुखमिति यावत्, तानि सत्तास्फूर्तिप्रियत्वानि आत्मा स्वरूपं यस्य तदेव ब्रह्मेत्यर्थः । अत्र[१] च भिन्नेष्वभिन्नमित्यनेन कार्यकारणानन्यत्वोक्तेरद्वितीयत्वमप्युक्तम् । अतः सत्तास्फूर्तिप्रियत्वात्मकमिति च सच्चिदानन्दाद्वयं ब्रह्मेति स्वरूपलक्षणमपि दर्शितम् । निर्मूलं निष्कारणं नित्यम् । अतस्तत् प्राप्तानां न पुनरावृत्तिरित्यपि सूचितम् ॥ ३ ॥

 ननु भक्त्यैव कृतार्था इत्युक्तं प्राक् 'सन्ति श्रेयांसि' (दश. ९५. क्ष्लो. ३)इत्यादिना । किमिदानीं कर्मज्ञानयोगोपादानमित्याशङ्कयाधिकारिभेदादित्याह---

ज्ञानं कर्मापि भक्तिस्त्रितयमिह भवत्प्रापकं तत्र तावद्
 निर्विण्णानामशेषे[२] विषय इह भवेद ज्ञानयोगेऽधिकारः ।
सक्तानां कर्मयोगस्त्वयि हि[३] विनिहितो ये तु नात्यन्तसक्ता
 नाप्यत्यन्तं विरक्तास्त्वयि च धृतरसा भक्तियोगो ह्यमीषाम् ॥ ४ ॥

 ज्ञानामति । भवत्प्रापकं मोक्षसाधनम् । तत्र तेषु त्रिषु मध्ये । अशेषे विषये इहामुत्र स्रक्कन्दनादौ अमृतादौ इह शरीरे च निर्विण्णानां विरक्तानां ज्ञानयोगेऽधिकारो भवेत् । सक्तानामनिर्विण्णानां हि त्वयि विनिहितः ईश्वरे समर्पितः कर्मयोगः । ये तु मध्यस्थाः त्वयि ईश्वरे धृतरसा यदृच्छया त्वत्कथादौ जातश्रद्धाश्चेत्यर्थः । तेषाममीषां भक्तियोगः ॥ ४ ॥


  1. 'त' ख. पाठः.
  2. 'षे खलु बिषयरसे ज्ञा' क. पाठ:.
  3. तु' क. पाठः.