पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५०
[ स्कन्धः - ११
नारायणीये


त्वद्धयानेऽपीह तुल्या पुनरसुकरता चित्तचाञ्चल्यहेतो-
 रभ्यासादाशु शक्यं तदपि वशयितुं त्वत्कृपाचारुताभ्याम् ॥ ७ ॥

 ज्ञानायैवेति । ज्ञानायैव केवलं ज्ञानमेव प्राप्तुम् अतियत्नं बहुग्रन्थाभ्यासं मुनिर्वेदव्यासः अपवदते पुराणेषु तत्र तत्र प्रतिषेधति । किं तु ब्रह्मतत्त्वं सिद्धान्तसारमात्रं शृण्वन् युक्त्यानुसन्दधानः गाढम् अतिशयेन त्वत्पादे भक्तिं यः शरणमयति तस्य मुक्तिः कराग्रे । जीवन्नेव मुक्त इति भावः । इह यमादिसहिते त्वद्ध्यानेऽपि चित्तस्य चाञ्चल्याद्धेतोरसुकरता दुरनुष्ठेयता तुल्या । तदपि दुष्करमपि ध्यानं त्वत्कृपया त्वञ्चरुतया श्रीमूर्तेः सौन्दर्येण चाभ्यासादाशु वशयितुं वशीकर्तु शक्यमित्यर्थः ॥ ७ ॥

निर्विण्णः कर्ममार्गे खलु विषमतमे त्वत्कथादौ च गाढं
 जातश्रद्धोऽपि कामानयि भुवनपते ! नैव शक्रोमि हातुम् ।
तद् भूयो निश्चयेन त्वयि निहितमना दोषबुद्धया भज॑स्तान्
 पुष्णीयां भक्तिमेव त्वयि हृदयगते मङ्क्षु नक्ष्यन्ति सङ्गाः ॥ ८ ॥

 निर्विण्ण इति । किञ्च, विषमतमे दुःखभूयिष्ठे कर्ममार्गे स्वर्गादौ निर्विण्णः विरक्तः त्वत्कथादौ जातश्रद्धश्च यद्यपि भवति, तथापि कामान् काम्यमानान् पुत्रमित्रवित्तादीन् नैव हातुं शक्नोमि । तत् तस्माद् भूयः पुनः पुनः निश्चयेन त्वयि निहितमना भूत्वा दोषबुद्धया तान् कामान् भजन्[१] सेवमानः भक्तिमेव पुष्णीयाम् । एवं भक्त्या भजनेन त्वयि हृदयगते सङ्गा विषयश्रद्धाः मञ्जु झटिति नङ्क्ष्यन्ति नाशं गमिष्यन्ति ॥ ८ ॥

 भगवद्भजने मनोनिग्रहस्यावश्यकत्वाद् भिक्षुपुरूरवसोर्निदर्शनेन चित्तशान्ति प्रार्थयते द्वाभ्यां -

कश्चित् क्लेशार्जितार्थक्षयविमलमतिर्नुद्यमानो जनौधैः
 प्रागेवं प्राह विप्रो न खलु मम जनः कालकर्मग्रहा वा ।


  1. ‘नु भ’ ख. पाठः.