चेतो मे दुःखहेतुस्तदिह गुणगणं भावयत् सर्वकारी- |
कश्चिदिति । प्राक् पुरा कश्चिद् विप्रः महता क्लेशेनार्जितस्यार्थस्य क्षयेण चोरादिभ्यो जातेन नाशेन सन्तप्यमानो निर्विण्णः सन् विमलमतिः प्रव्रजन् पुनरपि[१] नुद्यमानः पीड्यमानः सन्नेवं प्राह - अहं तावद् जनैः पीडित इव प्रतीये । न खलु मम जनो दुःखहेतुः, अस्य ममात्मनश्चैकत्वात् । न च कालः, तस्येश्वरात्मकत्वाद्, ममात्मनश्चेश्वरांशत्वात्, स्वांशस्य सतः पीडायोगाच्च । न च कर्म दुःखहेतुः, अचेतनस्य देहस्य चित्स्वरूपस्यात्मनश्च कर्मायोगात् । न ग्रहा दुःखनिमित्तं, यतो जन्मलग्नापेक्षया द्वादशाष्टमादिराशिस्थैर्ग्रहै: जनिमतो देहस्यैव पीडा न ममात्मनः । किन्त्वात्मत्वेनाभिमन्यमानं चेत एव मे दुःखहेतुः । तच्चित्तम् इह आत्मनि स्वगतं कर्तृत्वभोक्तृत्वादिरूपं गुणगणं भावयद् आरोपयत् सत् सर्वकारि सुरनरनारकीयादिशरीरभोग्यभोगस्थानादि सर्वे करोतीति सर्वकारीत्युक्त्वा शान्तः सन् त्वां गतः मुक्तो बभूव । मम च ममापि तादृशीं चित्तशान्ति कुरू ।
"परस्य संसृतिश्चित्त्वादचित्त्वाद् मनसोऽपि न । |
इति सिद्धान्तः ॥ ९ ॥
ऐल: प्रागुर्वशीं प्रत्यतिविवशमनाः सेवमानक्ष्चिरं तां |
ऐल इति । ऐलः प्रागुर्वशीमित्यादि स्पष्टम् । प्राक् पुरूरवाः स्वयमागतामुर्वशीं सेवमानः पुनः समयभङ्गेन स्वर्लोकं गतां तां यज्ञैः प्राप्य चिरं सेवमानो निर्विद्य शान्तचित्तोऽभूदिति वेदपुराणप्रसिद्धिः ॥ १० ॥
इति भगवद्विभूतिवर्णनं कर्मज्ञानभक्तिमार्गाधिकारिवर्णनं चित्तोपशमप्रार्थनावर्णनं च
षण्णवतितमं दशकम् ।