त्वं हीति । हे उरुमहिमन् ! विश्वमूर्ते ! त्वं हि साक्षात् परं ब्रह्मैव[१] ।
सर्वत्र षष्ठीसप्तम्यौ निर्धारणे[२] । अक्षराणां मध्येऽकारः, मन्त्रेषु तारः प्रणवः, त्वमिति
योजनीयम् । मुनिष्विति । ब्रह्मर्षिषु भृगुः देवर्षिषु नारदः ॥ १ ॥
ब्रह्मण्यानां बलिस्त्वं ऋतुषु च जपयज्ञोऽसि वीरेषु पार्थो |
ब्रह्मण्यानामिति । ब्रह्मण्यानां ब्राह्मणभक्तानाम् । बलिनां तेजस्विनामिति सम्बन्धे षष्ठी । यतस्त्वद्विभूतेरन्तो नास्ति अत एतदवधारयामि । विकसदतिशयं स्फुटप्रतीयमानातिशययुक्तं यद् वस्तु तत् सर्वं त्वमेव । किञ्च, त्वं जीवः, त्वं प्रधानं, प्रकृतिपुरुषौ त्वमेव । अतः प्रकृतिपुरुषात्मके[३] इह अस्मिन् प्रपञ्चे तत् तादृशं किञ्चिदपि नास्ति, यद् भवद्दते त्वघ्घतिरेकेण प्रतीयते । त्वमेवेदं सर्वमित्यर्थः ॥२॥
उक्तोपासनादावनधिकारिणामीश्वरार्पणेन स्वधर्मानुष्ठानाद् वैराग्यद्वारा मुक्तिरित्याह-
धर्म वर्णाश्रमाणां श्रुतिपथविहितं त्वत्परत्वेन भक्त्या |
धर्ममिति । वर्णानामाश्रमाणां च पृथक् पृथक् श्रुति[४]पथविहितं नित्यनैमित्तिकादिरूपं भक्त्या त्वत्परत्वेन ईश्वरार्पिततया कुर्वन्तः शनैरन्तर्विरागे विकसति प्रादुर्भूते सति सन्त्यजन्तः विहितानि कर्माणि विधिना त्यजन्तः परमहंसा भूत्वा विशुद्धं विषयाकारशून्यं त्वद्विबोधं त्वत्स्वरूपभूतं विबोधं परं ब्रह्म[५] परममहं परं ब्रह्मैवाहम् इति