पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४६
[स्कन्धः - ११
नारायणीये


सुस्थिरं तु चित्तं परमसुखचिदद्वैतरूपे सच्चिदानन्दस्वरूपे ब्रह्मणि वितन्वन् ब्रह्माकारं कुर्वन् अन्यद् ध्यातृध्येयविभागादि नो चिन्तयेयम् । मुहुः यावज्जीवं ब्रह्मैक्यं पुनः पुनः इति अनेन प्रकारेण समुपारूढयोगः भगवदुपासनशीलः भवेयम् ॥ ९॥

इत्थं त्वद्ध्यानयोगे सति पुनरणिमाद्यष्टसंसिद्धयस्ता
 दूरश्रुत्यादयोऽपि ह्यहमहमिकया सम्पतेयुर्मुरारे ! ।
त्वत्सम्प्राप्तौ विलम्बावहमखिलमिदं नाद्रिये कामयेऽहं
 त्वामेवानन्दपूर्ण पवनपुरपते ! पाहि मां सर्वतापात् ॥ १० ॥

 इत्थमिति । इत्थम् उक्तप्रकारेण त्वद्ध्यानमेव योगः पुरुषार्थस्योपायः तस्मिन् सति ताः सत्त्वोत्कर्षजाः अष्टौ संसिद्धयः अटैश्वर्याणि दूरश्रवण-दर्शनत्रिकालज्ञत्वादिक्षुद्रसिद्ध्योऽपि अहमहमिकया सम्पतेयुः । इदमखिलं त्वत्सम्प्राप्तौ विलम्बावहमित्यहं नाद्रिये । किं तु अहम् आनन्दपूर्ण मोक्षरूपं त्वामेव कामये । मां सर्वतापात् संसारात् पाहि । पुनरप्यष्टैश्वर्यादिभिः संसारार्णवे निक्षिप्य मा मां भ्रामयेति भावः ॥ १० ॥

इति भक्त्या विशुद्धचित्तस्यैव भगवत्स्वरूपध्यानयोग्यतावर्णनं

पश्चनवतितमं दशकम् ।


 अथोक्तध्यान[१]योग्यतासिद्ध्यै विश्वमूर्तीशोपासनाय भगवद्विभूति[२] निरूपयति-

त्वं हि ब्रह्मैव साक्षात् परमुरुमहिमन्नक्षराणामकार-
 स्तारो मन्त्रेषु राज्ञां मनुरसि मुनिषु त्वं भृगुर्नारदोऽपि ।
प्रह्लादो दानवानां पशुषु च सुरभिः पक्षिणां वैनतेयो
 नागानामस्य[३]नन्तः सुरसरिदपि च स्रोतसां विश्वमूर्ते ! ॥ १ ॥


  1. 'नाधिकारिता ' ख. पाठ:.
  2. 'तीर्नि' ख. ग. पाठः.
  3. ‘प्य' क. पाठ:.