सुस्थिरं तु चित्तं परमसुखचिदद्वैतरूपे सच्चिदानन्दस्वरूपे ब्रह्मणि वितन्वन्
ब्रह्माकारं कुर्वन् अन्यद् ध्यातृध्येयविभागादि नो चिन्तयेयम् । मुहुः यावज्जीवं
ब्रह्मैक्यं पुनः पुनः इति अनेन प्रकारेण समुपारूढयोगः भगवदुपासनशीलः
भवेयम् ॥ ९॥
इत्थं त्वद्ध्यानयोगे सति पुनरणिमाद्यष्टसंसिद्धयस्ता |
इत्थमिति । इत्थम् उक्तप्रकारेण त्वद्ध्यानमेव योगः पुरुषार्थस्योपायः तस्मिन् सति ताः सत्त्वोत्कर्षजाः अष्टौ संसिद्धयः अटैश्वर्याणि दूरश्रवण-दर्शनत्रिकालज्ञत्वादिक्षुद्रसिद्ध्योऽपि अहमहमिकया सम्पतेयुः । इदमखिलं त्वत्सम्प्राप्तौ विलम्बावहमित्यहं नाद्रिये । किं तु अहम् आनन्दपूर्ण मोक्षरूपं त्वामेव कामये । मां सर्वतापात् संसारात् पाहि । पुनरप्यष्टैश्वर्यादिभिः संसारार्णवे निक्षिप्य मा मां भ्रामयेति भावः ॥ १० ॥
इति भक्त्या विशुद्धचित्तस्यैव भगवत्स्वरूपध्यानयोग्यतावर्णनं
पश्चनवतितमं दशकम् ।
अथोक्तध्यान[१]योग्यतासिद्ध्यै विश्वमूर्तीशोपासनाय भगवद्विभूति[२] निरूपयति-
त्वं हि ब्रह्मैव साक्षात् परमुरुमहिमन्नक्षराणामकार- |