ध्यानमिति । समतनुः समकायशिरोग्रीवः सुखबद्धासनः । नास्ति स्वस्तिकादिनियमः । अक्ष्गोर्निमीलने मनोलयः, उन्मीलने मनोविक्षेपः, तदुभयाभावाय मुकुलीकरणेऽक्ष्णोर्नासिकाग्रन्यस्तता स्वयमेव स्यात् । पूरकरेचककुम्भकभेदैः प्राणायामैः जितः कफादिदोषनिरसनेन शोधितः पवनपथः वायुसञ्चरणस्थानं नाडीविवरं येन स तथा चित्तपद्मं हृदयाम्बुजम् अवाञ्चम् अधोमुखम् ऊर्ध्वाग्रं भावयित्वा तत्कर्णिकायां रविशशिशिखिन: उपरिष्टाद् उत्तरोत्तरं संविचिन्त्य तत्रस्थं वह्निमध्यस्थम् ॥ ७ ॥
आनीलक्ष्लक्ष्णकेशं ज्वलितमकरसत्कुण्डलं मन्दहास- |
आनीलेति । अतिशयेन नीलाः क्ष्लक्ष्णाः क्ष्लिष्टा: केशा यस्य, ज्वलिते मकराकारे सती कुण्डले यस्य, मन्दहासस्य स्य दो द्रवः तेन आर्द्रं त्निग्धं, कौस्तुभश्रीभिः परिगतया व्याप्तथा वनमालया उरुहारैः हारपटलैः अभिरामं, वक्षोदक्षिणभागे श्रीवत्साख्योऽङ्को यस्य, शोभना दीर्घपीवरा बाहवो यस्य, मृदु लसत् शोभमानमुदरं यस्य, काञ्चनच्छायचेलं परिहितपीताम्बरं, चारू स्निग्धौ मांसलावूरू यस्य, तं भवन्तं भावये चिन्तयामि ॥ ८ ॥
अथ क्रमात् समाधिभूमिकारोहणप्रकारमाह-
सर्वाङ्गेष्वङ्ग ! रङ्गत्कुतुक मतिमुहुर्धारयन्नीश ! चित्तं |
सर्वाङ्गेष्विति । रङ्गत्कुतुकं प्राप्तकौतुकं चित्तं सर्वाङ्गेषु अतिमुहुः पुनः पुनः धारयन् तत्र अवयवेष्वपि मध्ये एकत्र एकस्मिन्नवयवे युञ्जे । तत् कुत्र, वदनसरसिजे । मन्दहास इति वदनसरसिजविशेषणम् । मन्दः हासो यस्मिन् तत्र श्रीमुखे आलीनं