पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४४
[स्कन्धः- ११
नारायणीये


तत्र हेतु:- : - भक्त्या बलवत्या आक्रम्यमाणैः अभिभूयमानैरिति । पुनरपि भक्तौ जातायामि[१]त्यर्थः । यथा सप्तार्चिः अग्निः भूरिदारूप्रपञ्चं महान्तं काष्ठसञ्चयं दहति, तथैव त्वद्भक्तेरोघे प्रवाहे दुरितं दहति सति भक्तेः पुरतः इन्द्रियाणां क्क दुर्मदो गर्वः । अनेनेन्द्रियाणां भक्तिप्रातिकूल्याशक्तेर्दुरितस्य मूलच्छेदो दर्शितः ॥ ५॥

 भक्त्यभावेऽन्यत् साधनं व्यर्थमित्याह -

चित्ताद्रींभावमुच्चैर्वपुषि च पुलकं हर्षवाष्पं च हित्वा
 चित्तं शुध्येत् कथं वा किमु बहुतपसा विद्यया वीतभक्तेः ।
त्वद्गाथास्वादसिद्धाञ्जनसततमरीसृज्यमानोऽयमात्मा
 चक्षुर्वत् तत्त्वसूक्ष्मं भजति न तु तथाभ्यस्तया तर्ककोट्या ॥ ६ ॥

 चित्तार्द्रीभावमिति । चित्तार्द्रीभावादि हित्वा स्फुटप्रतीयमानैश्चिदैर्गम्यमानया भक्त्या विना कथं चित्तं शुध्येदित्यर्थः । ननु ब्रह्मज्ञानादेवाज्ञानकल्पितसंसारनिवृत्तिस्तत्स्वरूपावाप्तिश्च, किमत्र भक्तिः करोतीत्याशङ्कायामाह—त्वद्गाथेति । त्वत्पुण्यगाथानामास्वादः श्रवणं कथनं वा, तदेव सिद्धाञ्जनं, तेन सततमरीभृज्यमानः पुनः पुनः शोध्यमानः अयमात्मा चिंत्तं तत्त्वम् अनारोपितं यत् सूक्ष्मं वस्तु परं तत्त्वं, तद् भजति विषयीकरोति । अभ्यस्तया आवर्तितया तर्ककोट्या युक्तिसमूहेन तथा न भजति । भक्तेरवान्तरव्यापार एव ज्ञानम् । अतस्तत्प्रयासो व्यर्थ एवेति भावः ॥ ६ ॥

 एवं शुद्धचित्तस्य ध्यानयोग्यतामाह -

ध्यानं ते शीलयेयं समतनुसुखबद्धासनो नासिकाग्र-
 न्यस्ताक्षः पूरकाद्यैर्जितपवनपथश्चित्तपद्मं त्ववाञ्चम् ।
ऊर्ध्वाग्रं आवयित्वा रविविधुशिखिनः संविचिन्त्योपरिष्टात्
 तत्रस्थं भावये त्वां सजलजलधरश्यामलं कोमलाङ्गम् ॥ ७ ॥


  1. 'मपीत्य' क. ग. पाठः.