सामग्री पर जाएँ

पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् – ९५
३४३
भक्तया विशुद्धचित्तस्यैव भगवत्स्वरूपध्यानयोग्यतावर्णनम् ।


अनित्याश्च । त्वं तु श्रेयसां मध्ये भक्तिम् एकां केवलाम् अव्यभिचरिणीं वा महिततमाम् अतिशयेन पूजनीयां सख्ये उद्धवाय आचख्याथ आख्यातवान् । विषयजुषाम् इन्द्रियाणि प्रीणयतां त्वद्भक्त्या य आनन्दम्तत्तुल्यः सम्मदः सुखं केन वा स्याद्, न केनापीत्यर्थः ॥ ३ ॥

 तदेवाह-

त्वद्भक्त्या तुष्टबुद्धेः सुखमिह चरतो विच्युताशस्य चाशा:
 सर्वाः स्युः सौख्यमय्यः सलिलकुहरगस्येव तोयैकमय्यः ।
सोऽयं खल्विन्द्रलोकं कमलजभवनं योगसिद्धीक्ष्च हृद्या
 नाकाङ्क्षत्येतदास्तां स्वयमनुपतिते मोक्षसौख्येऽप्यनीहः ॥ ४ ॥

 त्वद्भक्त्येति । त्वद्भक्त्या प्रेमलक्षणया तुष्टबुद्धेः भक्त्यैवालं किमन्यैरिति जातालंबुद्धेः अत एव विच्युताशस्य विषयतृष्णारहितस्य अत एव इह सर्वत्र सुखं चरतः आशाः दिशः सर्वाः सौख्यमय्यः स्युः । अनुभूयमानं सर्व सुखात्मकमेवेति भावः । यथा सलिलकुहरं महाहूदः, तद्गस्य मत्स्यादेः सर्वा दिशस्तोयैकमय्यो भवन्ति, एवं त्वद्भक्त्यानन्दनिमग्नस्य भक्तस्यापि सर्वा दिशः सौख्यमय्य एवेत्यर्थः । किञ्च, सोऽयं भक्तः खलु इन्द्रादिलोकं हृद्या[] मनोहराः योगसिद्धीः उपासन[]फलभूताः परकायप्रवेशाष्टैश्वर्यदूरश्रवणदर्शनाद्याः नाकाङ्क्षतीत्येतदास्ताम्, असौ मोक्षसौख्येऽप्यनीहो निराग्रहः । किं तर्हि दुष्करतादृष्टेः, न । स्वयमनुपतिते भक्तिमहिम्ना स्वयमेव प्रादुर्भूते ॥ ४ ॥

 आस्तान्तावदुत्तमभक्तकथा यतः प्राकृता अपि भक्ताः कृतार्था इत्याह--

त्वद्भक्तो बाध्यमानोऽपि च विषयरसैरिन्द्रियाशान्तिहेतो-
 र्भक्त्यैवाक्रम्यमाणैः पुनरपि खलु तैर्दुर्बलैर्नाभिजय्यः ।
सप्तार्चिदर्दीपितार्चिर्दहति किल यथा भूरिदारुमपञ्चं
 त्वद्भक्त्योघे तथैव प्रदहति दुरितं दुर्मदः केन्द्रियाणाम् ॥ ५ ॥

 त्वद्भक्त इति । इन्द्रियाशान्तेः अवशीकृतेन्द्रियत्वाद्धेतोः विषयरसैर्वाध्यमानः आकृष्यमाणोऽपि तैर्नाभिजय्यः न वशीकर्तुं शक्यः । अत्र हेतुः- दुर्बलैरिति ।


  1. 'द्या यो' ख. पाठः.
  2. 'ना' ख. पाठ:.