स्वर्गादिफलानि प्राप्ताः मत्ताः विमाने स्त्रीभिः सह नन्दनादिषु क्रीडन्तः
प्रमत्ताः कर्मक्षयेण पतने अधःपतने प्रसजति सति अनन्तान् विषादान् दुःखानि
यान्ति ॥ ३ ॥
ननु वेदोक्तोपासनादिकर्मभिः सत्यलोकं प्राप्ताः क्लेशरहिता ब्रह्मणा सह मोदन्त इत्याशङ्कायामाह---
त्वल्लोकादन्यलोकः क नु भयरहितो यत् परार्धद्वयान्ते |
त्वल्लोकादिति । त्वल्लोकाद् बैकुण्ठाद् अन्यलोकः सत्यलोकादि: भयरहितो विनाशभयरहितः क्व नु नास्तीत्यर्थः । अत्र हेतुः – परार्धद्वयम् अन्तोऽवधिर्यस्य स तथा तादृशे सत्यलोके स पद्मभूरपि त्वत् कालस्वरूपादीश्वराद् भी [१]तः अतो न सुखवसतिः सुखरूपा विनाशभयरहिता वसतिर्वासो यस्य स तथा । पद्मभूरिति ब्रह्मण उत्पत्तिविनाशौ द्योतयति । एव[२]म्भावे एवं सति विद्याकर्मभ्यां प्राश्वर्यस्य ब्रह्मणोऽपि दुःखात्यन्तिकनिवृत्त्यभावे सति अधर्मैरार्जित बहुतमो दुरितं येषां तेषां नारकाणां नरक[३]पतितानां संसारिणां क्लेशहाने का कथा । तत् तस्माद् बन्धं शरीराद्यहम्ममाभिमानं छिन्धि, मोक्षं प्रयच्छेत्यर्थः ॥ ४ ॥
ननु जीवो नाम नेश्वरादन्यः । कुतस्तस्य बन्धमोक्षावित्याशङ्कय परिहरति-
याथार्थ्यात् त्वन्मयस्यैव हि मम न विभो ! वस्तुतो बन्धमोक्षौ |