नयेतं द्रागेनानिति खलु वितीर्णान् पुनरभून् |
युवामिति । युवां कृष्णार्जुनौ मामेव मदंशभूतावेव द्वौ अधिकविवृतान्तर्हितत[१]या विभिन्नौ। एकः शुद्धसत्त्वोपाधिकतयाधिकविवृतः प्रकटितनिजैश्वर्यः । अन्य उपाध्यन्तर्हितनिजैश्वर्यः । अतो जीधेश्वररूपेण विभिन्नौ द्विधाभूतौ सम्द्रष्टुं समीपे द्रष्टुमहं स्वयं द्विजसुतानहार्षम् आनीतवान् । एनान् द्राग् झटिति नयेतं द्विजवरनिकटं प्रापयेतम् इति वितीर्णान् दत्तान् अमून् द्विजसुतान् आदाय ब्राह्मणायादाः दत्तवान् । पाण्डुजनुषा पार्थेन प्रणुतः स्तुतो महिमा यस्य ॥ ९ ॥
एवं नानाविहारैर्जगदभिरमयन् दृष्णिवंशं प्रपुष्ण- |
एवमिति। भूभारक्षेपमिषेण मनुजतया रूषितो बहिर्लिप्तः ॥ १० ॥
प्रायेण द्वारवत्यामवृतदयि तदा नारदस्त्वद्रसार्द्र- |
प्रायेणेति । श्रीनारदः प्रायेण दक्षशापाच्चिरमेकत्र स्थातुमशक्यतया गतागतपूर्वकं द्वारवत्यामवृतद् वर्तते स्म । तदा तस्मान्नारदात् । जनहिताय भक्तानां ज्ञानोपदेशाय ॥ ११ ॥
सोऽयं कृष्णावतारो जयति तव विभो ! यत्र सौहार्दभीति- |
- ↑ 'या ए' क ग. पाठ:.