भवन्तमिति । अतिवयाः वृद्धः अत एव भवन्तं श्रीकृष्णात्मनावतीर्णम्
अवितर्कयन् अनिरूपयन् मुकुन्दो विष्णुः शरणं यस्य तं मां रोद्धुम् इह जगति कः शक्तः विभो! हरे! रघुपते! जय जय स्वोत्कर्षमाविष्कुर्वित्यालपन मन्त्रमिव पुनः पुनर्जपन् चरन् प्रदक्षिणं कुर्वन्निव द्वन्द्वयुद्धमार्गे सञ्चरन् मुष्टिभिः
कुसुमैरिव तव स्वस्वामिनः समर्चनं सम्यक् संरम्भात्मकभक्तिपुरस्सरं पूजां व्यधित
प्रसादयामास, यतोऽयं भक्तचूडामाणिः त्वत्प्रीत्यै कृतसकलक[१]र्मा ॥ ४ ॥
बुद्धाथ तेन दत्तां नवरमणीं[२] वरमणीं च परिगृह्णन् । |
बुद्ध्वेति । अथ बुद्ध्वा त्वन्मुष्टिपातेन सञ्जातव्यथतया त्वां पुराणपुरुषं ज्ञात्वा स्वापराधमार्जनाय तेन जाम्बवता दत्तां नवाम् अप्रौढां रमणीं जाम्बवतीं वरमणीं[३] स्यमन्तकं च परिगृह्णन् अनुं भक्तम् अनुगृह्णन् पाणिपद्मेन प्रत्यङ्गमभिमृश्यापनीताखिलपरितापं कुर्वन् द्वारकामागाः । सपदि आगमनानन्तरमेव सत्राजिते मणिं तत्प्राप्त्याख्यानपूर्वकं प्रादाः दत्तवान् ॥ ५॥
तदनु स खलु व्रीडालोलो विलोलविलोचनां |
तदन्विति । स खलु सत्राजित् सत्यभामाख्यं स्त्रीरत्नं रत्नमपि श्रीकृष्णाय दत्त्वा आत्मापराधं प्रमाज्मीति शुभा धीरस्यास्तीति धीमान् गिरैव, न क्रियया पराय शतधन्वने अर्पितां प्रतिश्रुताम् मणिना सह तुभ्यम् अदित दत्तवान् । भवानपि मणेर्लभ्यं स्वर्णभाराष्टकं समेत्य दातव्यमिति समयपूर्वकं प्राप्य तस्य सत्राजित एव मणिमदात् । किमर्थं गहनाशयः भूयोऽप्यस्य मणिहेतुकामापदं विधातुं[४] वान्यत् किञ्चिद्वेति देवैरप्यविदित आशयोऽभिप्रायो यस्य ॥ ६ ॥
व्रीडाकुलां रमयति त्वयि सत्यभामां |