तव विभो ! परा कोमलं भुजं निजगलान्तरे पर्यवेष्टयत् । |
तवेति । अपरा तव भुजं गृहीत्वा निजगलान्तरे पर्यवेष्टयद् बबन्ध त्वद्विरहव्यथया निर्गमिष्यन्तं प्राणमारुतं प्रतिनिरुन्धतीव ॥ ३ ॥
अपगत्रता कापि कामिनी तव मुखम्बुजात् पूगचर्वितम् । |
अपगतेति[१] । प्रतिगृहय्य गृहीत्वा तत् पूगचर्वित स्ववत्र्कपङ्कजे निदधती आस्वादयन्ती पूर्णकामतां सञ्जातजीवनफलतां गता प्राप्ता ॥ ४ ॥
विकरुणो बने संविहाय मामपगतोऽसि का त्वामिह स्पृशेत् । |
विकरुण इति । वने मां संविहाय अपगतो दूरं गतोऽसि । अतो विकरुणो निष्कृपस्त्वमिदानीं किमर्थमागतोऽसि । इह अस्मासु का त्वां स्पृशेदिति सजललोचनं यथा भवति तथा वीक्षितः ॥ ५ ॥
इति मुदाकुलैर्वल्लवीजनैः समुपागतो यामुने तटे । |
इतीति । मृदुभिः कुचाम्बरैः उत्तरीयै कल्पिते आसने घुसृणभासुरे कुङ्कुमशोभिते ॥ ६ ॥
ततश्च सहोपविष्टास्ता भवन्तमाहुरित्याह-
कतिविधा कृपा केऽपि सर्वतो धृतदयोदयाः केचिदाश्रिते। |
कंतिविधेति । इह जगति कतिविधा कृपा । केऽपि सर्वतः सर्वजनेषु घृतदयोदयाः कृपावन्तः । केचिदाश्रिते जन एव धृतदयोदयाः । कतिचित् केचिद् मादृशेष्वाश्रितेष्वपि ईदृशाः भवानिव निष्करुणाः । तत्र तत्त्वं ब्रूहीति शेषः ॥ ७ ॥
- ↑ 'ति । त' क. ख. पाठः.