कारमवोचः । इह मे निगदितं किं वितश्रमसत्यम् । अयं मूर्तिमत्त्वेन दृश्यमानो गोत्रो गोवर्धनाख्यो गोत्रद्विषि इन्द्रे चापि कुपिते रक्षितुमलं शक्तः ॥ ६ ॥
परिप्रीता याताः खलु भवदुपेता ब्रजजुषो |
परिप्रीता इति । निजमखविभङ्गं निशमयन् शृण्वन् भवन्तं श्रीकृष्णं विष्णुं जानन्नपि अधिकरजसा तत्कार्यरागादिभिरात्र्कान्तं हृदयं यस्य सः निजमखविभङ्गं न सेहे । त्वदुपरचिता त्वत्कृता आत्मोन्नतिरैन्द्रं पदं यस्य ॥ ७ ॥
मनुष्यत्वं यातो मधुभिदपि देवेष्वविनयं |
मनुष्यत्वमिति । मधुभिद् विष्णुरपि मनुष्यत्वं यातो निकृष्टो जातः । अयं मधुभिच्चेद् देवेष्वविनयं न विधत्ते, यदि चेद् विधत्ते तर्हि न मधुभिदयमिति भावः । एवं चेत् त्रिदशसदसां देवसभानां कोऽप्यनिर्देश्यो महिमा नष्ट एव । पशुपहतकस्य गोपालाधमस्य कृष्णस्य ॥ ८ ॥
त्वदावासं हन्तुं प्रलयजलदानम्बरभुवि |
त्वदिति । प्रहिण्वन् मुञ्चन् अथ्रेभगमन ऐरावतमारूढः अन्यैर्दहनमरुदाद्यैरग्निवाय्वादिभिरन्तर्हदि विहसितः परिहसितः । भवन्माया कं नै[१]व मोहयति ॥ ९ ॥
- ↑ 'न मो' ग. पाठः.