सामग्री पर जाएँ

पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१८
[स्कन्धः - १०
नारायणीये


 इतीति । धिग् अहो अन्धपरम्परा महतां मनोऽपि स्पृशति, यतो मघवजनिता वृष्टिरित्येतन्नो सत्यम् । यद् यस्माज्जीवानामदृष्टं कर्मफलं खलु वृष्टिं सृजति, न मघवा । सोऽप्यदृष्टेनैवैन्द्रं पदमाप्तः । अत्र हेतुमाह - महारण्य इति । अकृतेन्द्रयागानां वृक्षाणामपि वृष्टिकृतयोगक्षेमदर्शनादित्यर्थः ॥ ३ ॥

इदं तावत् सत्यं यदिह पशवो नः कुलधनं
 तदाजीव्यायासौ बलिरचलभर्त्रे समुचितः ।
सुरेभ्योऽप्युत्कृष्टा ननु धरणिदेवाः क्षितितले
 ततस्तेऽप्याराध्या इति जगदिथ त्वं निजजनान् ॥ ४ ॥

 इदमिति । यदिहोक्तं पशवो नः कुरुधनमिति, तदिदं तावत् सत्यम् । अतस्तदाजीव्याय तृणसलिलसम्पत्तयेऽसौ प्रारब्धो बलिरचलभर्त्रे गोवर्धनाय, यतोऽचलो नस्तृणं जलं च ददाति, अतः समुचितः । फिञ्च धरणिदेवा ब्राह्मणाः, अतस्तेऽप्याराध्याः पूजनीया इति जगदिथ ॥ ४ ॥

भवद्राचं श्रुत्वा बहुमतियुतास्तेऽपि पशुपा
 द्विजेन्द्रानर्चन्तो वलिमददुरुच्चैः क्षितिभृते ।
व्यधुः प्रादक्षिण्यं सुभृशमनमन्नादरयुता-
 स्त्वमादः शैलात्मा वलिमखिलमाभीरपुरतः ॥ ५ ॥

 भवदिति । उच्चैः पूर्वस्माद् विशिष्टबहुसाधनोपबृंहितं बलि पूजां अददुः । व्यधुर्विदधिरे । त्वं शैलात्मा शैलवदतिमहद् वपुर्गृहीत्वा आभीराणां गोपानां पुरतः शैलोऽस्मि प्रसन्नोऽस्मीति ब्रुवन् बलिमादः अभुङ्क्थाः ॥ ५ ॥

अवोचश्चैवं तान् किमिह वितथं में निगदितं
 गिरीन्द्रो नन्वेष स्वबलिमुपभुङ्क्ते स्ववपुषा ।
अयं गोत्रो गोत्रद्विषि च कुपिते रक्षितुमलं
 समस्तानित्युक्ता जहपुरखिला गोकुलजुषः ॥ ६ ॥

 अवोच इति । रूपान्तरेण गोपसमूहस्थश्च त्वं तान् गोपानेवं वक्ष्यमाणप्र-