सामग्री पर जाएँ

पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ५८]
२०७
गोगोपानां दावाग्निमोक्षवर्णनम् ।


उच्चतया दैत्यतनोस्त्वन्मुखमालोक्य दूरतो रामः ।
विगतभयो दृढमुष्टया भृशदुष्टं सपदि पिष्टवानेनम् ॥ ९॥

 उच्चतयेति । उच्चतयोन्नततया तत्स्कन्धस्थो रामो दूरतोऽपि त्वन्मुखमालोक्य भृशमतिशयेन दुष्टं दृढ़या म्थिरया मुष्टया सपदि झटिति पिष्टवान् निगृहीतवान् ॥ ९ ॥

हत्वा दानववीरं प्राप्तं बलमालिलिङ्गिथ प्रेम्णा ।
तावन्मिलतोयुवयोः शिरसि कृता पुष्पवृष्टिरमरगणैः ॥ १० ॥

 हत्वेति । मिलतोः प्रकृतिलये सकलनिष्कलै[]क्यवदेकीभूतयोः ॥ १० ॥

आलम्बो भुवनानां प्रालम्बं निधनमेवमारचयन् ।
कालं विहाय सद्यो लोलम्बरुचे ! हरे ! हरे: क्लेशान् ॥ ११ ॥

 आलम्ब इति । भुवनानामालम्ब आश्रयः प्रालम्बं प्रलम्बस्येदं निधनं निग्रहमेवमुक्तप्रकारेणारचयन् कुर्वन् कालं कालविलम्बं विहाय त्यक्त्वा हरेर्नाशय ॥

इति प्रलम्बासुरवधवर्णनं सप्तपञ्चाशं दशकं सैकम् ।


त्वयि विहरणलोले वालजालैः प्रलम्ब-
 प्रमथनसविलम्बे धेनवः स्वैरचाराः ।
तृणकुतुकनिविष्टा दूरदूरं चरन्त्यः
 किमपि विपिनमैषीकाख्यमीषांबभूवुः ॥ १ ॥

 त्वयीति । त्वयि प्रलम्बमथनेन सविलम्बे सति इषीकतृणभूयिष्ठत्वादैषीकाख्यं वनमीषांबभूवुर्जग्मुः ॥ १ ॥

अनधिगतनिदाघक्रौर्यबृन्दावनान्ताद्
बहिरिदमुपयाताः काननं धेनवस्ताः ।


  1. 'लरूपवदे' क. पाठः