पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०६
[स्कन्धः - १०
नारायणीये


गोपान् विभज्य तन्वन् सङ्गं *वलभद्रकं भवत्कमपि ।
त्वद्वलभीरुं दैत्यं त्वद्धलगतमन्वमन्यथा भगवन् ! ॥ ५ ॥

 गोपानिति । गोपान् योगिप्रतियोगिभेदेन विभज्य बलभद्रकं सङ्घ भवतकं सङ्घ च तन्वन् । त्वद्वलभीरुमिति । प्रलम्बश्चिन्तितवान् अस्मिन् द्वन्द्वयुद्धे पराजिता जेतारं वहेयुरिति न्यायः । दिष्ट्या मिथ्यापराजितोऽहमनयोरन्यतरं वहन् नेप्यामि । तत्र रामसङ्घस्थ: कृष्णं वहन् कदाचित् तृणावर्त इव विपन्नः स्यामिति त्वद्वलादू भीरुं त्वद्वलगतं त्वत्सङ्घस्थं त्वमन्वमन्यथा अनुज्ञातवान् ॥ ५ ॥

कल्पितविजेतृवहने समरे परयूथगं स्वदयिततरम् ।
श्रीदामानमधत्थाः पराजितो भक्तदासतां प्रथयन् ॥ ६॥

 कल्पितेति । कल्पितं विजेतॄणां वहनं यस्मिन् । भक्तानां मच्छिर आक्रम्य स्थातुमपि शक्यमिति भक्तदासतां प्रथयन् प्रकाशयन् श्रीदामानमधत्था ऊढवान् ॥ ६ ॥

एवं बहुषु विभूमन्! वालेषु वहत्सु वाह्यमानेषु ।
रामविजितः प्रलम्बो जहार तं दूरतो भवद्भीत्या ॥ ७ ॥

 एवमिति । भवद्भीत्या रामम् । दूरत इति । वहन्नवरोहणस्थानावधि शनैर्गत्वा ततो जहार क्षिप्रं नीतवान् ॥ ७ ॥

त्वद् दूरं गमयन्तं तं दृष्ट्वा हलिनि विहितगरिमभरे ।
दैत्यः स्वरूपमागाद् यद्रूपात् स हि बलोऽपि चकितोऽभूत् ॥ ८ ॥

 त्वदिति [१]त्वत् त्वत्सकाशाद् दूरं दूरदेशं गमयन्तं नयन्तं तं दैत्यं सशङ्कं दृष्ट्वा हलिनि रामे विहितगरिमभर उत्पादितात्मगौरवे सति वहनाक्षमतया दैत्यः स्वरूपमतिभीषणमागात् । यस्माद्रूपाद् रूपं दृष्ट्वा स हि बलोऽपि शेषमूर्तिरपि मानुषभावेन चकित ईषत् त्रस्तोऽभूत् ॥ ८ ॥


 * बलभद्रनेतृकमित्यर्थः । एवं भवत्कम् । उभयत्र ‘स एषां ग्रामणीः' (५-२-७८) इति कन् ।


  1. 'ति । त्वत्स' ख. ग. पाठ:.