पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ५७]
२०५
प्रलम्बासुरवधवर्णनम् ।


पानक्रियाकर्मतयाप्यसौ पीतता । हे हरे ! दुरितैर्गदकारणभूतैर्दुष्कर्मफलैः सह गदान् कार्यभूतान् हर नाशय ॥ १० ॥

इति कालियमर्दने कालियस्य भगवदनुग्रहवर्णनं भगवतो दवानलपानवर्णनं च

षट्पञ्चाशं दशकम् ।


रामसखः क्वापि दिने कामद ! भगवन् ! गतो भवान् विपिनम् ।
सुनुभिरपि गोपानां धेनुभिरभिसंवृतो लसद्वेषः ॥ १ ॥

 रामेति । रामः सखा यस्य स भवान् लसद्वेषः शोभमानालङ्कृतिविशेषः ॥ १ ॥

सन्दर्शयन् बलाय स्वैरं वृन्दावनश्रियं विमलाम् ।
काण्डीरैः सह बालैर्भाण्डीरकमागमो वटं क्रीडन् ॥ २ ॥

 सन्दर्शयन्निति । काण्डीरैयष्टीकैरुदतयष्टिभिरित्यर्थः । भाण्डीरकं नाम बटमागतः ॥ २ ॥

तावत् तावकनिधनस्पृहयालुर्गोपमूर्तिरदयालुः ।
दैत्यः प्रलम्बनामा प्रलम्बबाहुं भवन्तमापेदे ॥ ३ ॥

 तावदिति । तावकनिधनस्पृहयालुस्त्वन्निग्रहेच्छावान् गोपमूर्तिर्गोपवेषः अदयालुः निष्कृपः प्रलम्बनामा दैत्यः प्रलम्बबाहुं तादृशवाहुद्वययुक्तमापेदे प्राप ॥

जानन्नप्यविजानन्निव तेन समं निबद्धसौहार्दः ।
वटनिकटे पटुपशुपव्यावद्धं द्वन्द्वयुद्धमारब्धाः ॥ ४॥

 जानन्निति । जानन्नपि वैरोत्पादनाय निबद्धं सौहार्दं सुहृद्भावो येन । वटस्य निकटे समीपे पटुभिर्द्वन्द्वयुद्धक्रीडाकोविदैः पशुपैः श्रीदामादिभिर्व्याबद्धमितरेतरसम्बद्धं द्वन्द्वयुद्धमारब्धाः प्रारब्धवान् ॥ ४ ॥


 *रामस्य सखा । ब्याख्यानरीत्या तु रामसखेति पाठः स्यात् ।