त्वद्वाहं तं सक्षुधं तृक्षमनुं मीनं कञ्चिज्जक्षतं लक्षयन् सः । |
त्वादति । त्वद्वाहं तव वाहनभूतं तृक्षसूनुं तार्क्ष्यं जक्षतं भक्षयन्तं लक्षयन् पश्यन् चित्ते तप्तः सन्तापवान् अत्र कालिन्दीह्रदे त्वं जन्तून् मत्स्यादीन् भोक्ता भक्षयिष्यसि चेद् जीवितं मोक्ता मरिष्यसि ॥ २ ॥
तस्मिन् काले कालियः क्ष्वेलदर्पात् सर्पारातेः कल्पितं भागमश्नन् । |
तस्मिन्निति । क्ष्वेलदर्पाद् विषवीर्यमदात् सर्पैरात्मरक्षणार्थे कल्पितं भागं मासिकं बलिमश्नन् त्वत्पदाम्भोजं भजतीति तथा । अतः पक्षेण सव्येन क्षिप्तो विवशीकृितः तद्दुरापं सर्पारातिदुरापं पयः कालिन्दीह्रदमगात् ॥ ३ ॥
घोरे तस्मिन् सूरजानीरवासे तीरे वृक्षा विक्षताः क्ष्वेलवेगात् । |
घोर इति । घोरे क्रूरकर्माणि तस्मिन् कालिये सूरजानीरवासे कालिन्दीहृदनिवासिनि सति विक्षता विषाग्निज्वालावलीढतया नष्टाः । अभ्र उपरिभागे । तेन, यतो न केवलं तज्जलोपभोगाभाव: प्रत्युत सर्वलोकविनाशश्च, तेनेत्यर्थः ॥ ४ ॥
काले तस्मिन्नेकदा सीरपाणिं मुक्त्वा याते यामुनं काननान्तम् । |
काल इति । सीरपाणिं मुक्त्वा रामं विना यामुनं यमुनासम्बन्धिनं काननान्तं वनप्रदेशं याते त्वयि । उद्दामेति । प्रवृद्धग्रीष्मकालोत्थेन भीष्मेणोष्मणा तप्ताः क्ष्वेलतोयं विषजलं व्यापिचन् यथासुखं पपुः ॥ ५ ॥
नश्यज्जीवान् विच्युतान् क्ष्मातले तान् विश्वान् पश्यन्नच्युत! त्वं दयार्द्र:। |