पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२००
[ स्कन्धः - २०
नारायणीये


 नश्यदिति । नश्यज्जीवान् म्रियमाणान् विच्युतान् पतितान् विश्वान् सर्वान् ॥ ६ ॥

किं किं जातो हर्षवर्षातिरेकः सर्वाङ्गेष्वित्युत्थिता गोपसङ्घाः ।
दृष्ट्वाग्रे त्वां त्वत्कृतं तद् विदन्तस्त्वामालिङ्गन् दृष्टनानाप्रभावाः ॥ ७ ॥

 किमिति । गोपसङ्घास्ततः किं किमिदमहो सर्वाङ्गेषु हर्षवर्षातिरेकः परमानन्दपीयूषाप्लवो जात इति स्वप्नादिवोत्थिताः प्रागप्यघपूतनामोक्षादिषु दृष्टनानाप्रभावतया इदं विषजलादू रक्षणं त्वत्कृतं विदन्तस्त्वामालिङ्गन् आक्ष्लेषं कृतवन्तः ॥ ७ ॥

गावश्चैवं लब्धजीवाः क्षणेन स्फीतानन्दास्त्वां च दृष्ट्वा पुरस्तात् ।
द्रागावव्रुः सर्वतो हर्षबाष्पं व्यामुञ्चन्त्यो मन्दमुद्यन्निनादाः ॥ ८ ॥

 गाव इति । गावश्चैवमुत्थिता द्वाग् झटित्यावव्रुः परिवाय स्थिताः ॥ ८ ॥ रोमाञ्चोऽयं सर्वतो नः शरीरे भूयस्यन्तः काचिदानन्दमूर्छा । आश्रर्योऽयं क्ष्वेलवेगो मुकुन्देत्युक्तो गोपैर्नन्दितो वन्दितोऽभूः ॥ ९ ॥

 रोमाञ्च इति । हे मुकुन्द ! अयं क्ष्वेलवेगो विषवेग आश्चर्य: सर्पदष्टानामदृष्टपूर्वः । नोऽस्माकमन्तर्हृदि काचिदपरिच्छेद्यानन्दस्य निरतिशयसुखस्य मूर्छा वृद्धिः भूयस्यतिनिबिडा । कथं ज्ञायते, शरीरे सर्वतः सर्वत्र रोमाञ्चोऽयं पश्यतु भवानिति भावः ॥ ९॥

एवं भक्तान् मुक्तजीवानपि त्वं मुग्धापाङ्गैरस्तरोगांस्तनोषि ।
तादृग्भूतस्फीतकारुण्यभूमा रोगात् पाया वायुगेहाधिवास ! ॥ १० ॥

 एवमिति । मुक्तजीवान् मृतानप्यस्तरोगान् लब्धजीवांस्त्यक्तशोकांश्च तनोषि ॥ १० ॥

इति कालियमर्दने विषजलेन भृतानां गोगोपानामुज्जीवनवर्णनं

चतुष्पञ्चाशं दशकम् ।