सामग्री पर जाएँ

पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ५१]
१९१
अघासुरवधवर्णनम् ।


प्रमादतः प्रविशति पन्नगोदरं
 कथत्तनौ पशुपकुले सवात्सके ।
विदन्निदं त्वमपि विवेशिय प्रभो !
 सुहृज्जनं विशरणमाशु रक्षितुम् ॥ ५ ॥

 प्रमादत इति । क्कथत्तनौ दह्यमानशरीरे सवात्सके तत्ससमूहसहिते । त्वमपीदमघासुरचेष्टितं विदन् जानन् ॥ ५ ॥

गलोदरे विपुलितवर्ष्मणा त्वया
 महोरगे लुठति निरुद्धमारुते ।
द्रुतं भवान् विदलितकण्ठमण्डलो
 विमोचयन् पशुपपशून् विनिर्ययौ ॥ ६ ॥

 गलोदर इति । विपुलितवर्ष्मणा वर्धितशरीरेण त्वया निरुद्धो मारुतः प्राणवायुर्यस्य । अत एव प्राणनिरोधाल्लुठति इतस्ततो वेष्टमाने सति विदलितं विदारितं कण्ठमण्डलं येन स भवांस्तेन प्राणनिर्गममार्गेण पशुपान् पशूंश्च विमोचयन् बहिर्निर्गमयन् स्वयमपि विनिर्ययौ ॥ ६ ॥

क्षणं दिवि त्वदुपगमार्थमास्थितं
 महासुरप्रभवमहो महो महत् ।
विनिर्गते त्वयि तु निलीनमञ्जसा
 नभःस्थले ननृतुरथो जगुः सुराः ॥ ७ ॥

 क्षणमिति । त्वदुपगमार्थं त्वान्नर्गमनार्थं त्वयि प्रवेष्टुं वा क्षणं दिव्याकाश आस्थितं महासुरप्रभवमघासुरशरीरान्निर्गतं महद् विपुलं महः सूक्ष्मशरीरस्यापि त्यागेन परिच्छेदकाभावादत्युज्ज्वलं तेजःपुजं त्वाये ज्योतिषि ज्योतिरिव निलीनम् | अहो द्विषन्नप्यघासुरो भवन्तमन्तःकृत्वा मृतोऽतस्तत्क्षणं तत्फलं सायुज्याख्यं मोक्षं सर्वलोकसमक्षं प्राप्तवान् । अहो भक्तवात्सल्यं भवत इति भावः ॥ ७ ॥