सिद्धान्तशिरोमणौ गोलाध्याये अस्माद् रूपगुणत्रिज्यासमोऽभीष्टघ्नगुण्यः शोध्य इति त्रिज्योनितमित्युक्तम् । ततश्चतुर्भंक्तमष्टादशांशजीवा स्यादिति । ५३२ अत्र सूक्ष्मरीत्या तन्मानप्रकारज्ञानं तु यावत्तावदेकं अष्टादशांशज्यामानं प्रकल्प्य एकवर्णमध्यमाहरणबीजयुक्त्या ज्ञेयम् । अथेष्टभुजांशानां क्रमोत्क्रमज्या ज्ञाने तदर्धांशकंजीवाज्ञानमाह-क्रमोत्क्रमज्येति । केवलोत्क्रमज्याज्ञानेऽप्याह - त्रिज्योत्क्रमज्यानिहतेरिति । भाष्येऽत्रापि वासना सम्यगुक्ता । प्रकारान्तरेणाप्युच्यते । कोटिज्योना त्रिज्या भुजोत्क्रमज्या भवति । तस्या वर्गोऽयं खण्डत्रयात्मकः को व १, को त्रि० घा० २, त्रि व १ अत्र दोर्ज्या वर्गीयं खण्ड- द्वयात्मकः । को व १ त्रि व १ यथास्थानं योजितो जातोऽर्द्धाशकसम्पूर्णजीवावर्गः को० त्रि० घा २ त्रिव २ अस्य मूलदलं ग्राह्यमित्ययमेव चतुर्भक्त: को० त्रि० घारे त्रिव १ कोटिज्यात्रिज्याघातेनोनस्त्रिज्यावर्गो द्विभक्त इति जातम् । २ त्रिज्यावर्गो नाम त्रिज्यागुणिता त्रिज्या | तत्र त्रिज्यागुणिता कोटिज्या शोध्या | केवलयोरन्तरे गुणगुणिते गुणगुणितयोर्वान्तरे फलाविशेषात्कोटिज्योनत्रिज्यारूपा भुजोत्क्रमज्या त्रिज्यागुणा जातस्त्रिज्योत्क्रमज्या घातस्तस्य दलमर्द्धाशज्येति शोभन - मुक्तम् । एवं सर्वत्र वासनाभिरनेकाभिः शिष्याणां कौतूहलमुत्पादयन्त्यस्मद्विधाः । एवं पूर्वप्रणीतजीवासाधनमुक्त्वाऽधुना स्वरचितं विशिष्टिजीवानयनं विवक्षुस्तावद्- भुजोनयुक्तत्रिभखण्डयोर्जीवाज्ञानमाह- त्रिज्याभुजज्याहतिहीनयुक्त इति । अत्रोपपत्तिः – भुजोनं त्रिभं नाम कोटिर्भवति सा कोटिरेव भुजः कल्प्यः । ततः प्राग्वत् त्रिज्योत्क्रमज्या निहतेर्दलस्य मूलमित्यनेन कोटयंशार्द्धशिज्जिनी साधिता । तद्यथा--तत्रेदं क्षेत्रम् | कोटिक्रमज्या भुजः कोट्युत्क्रमज्याकोटिस्तवर्गयोग- पदं कर्णस्तत्र कोट्युत्क्रमज्या नाम भुजक्रमज्योना त्रिज्या | सा त्रिज्या गुण्या तदर्द्धाशकशिञ्जिन्यर्थं तत्र गुणने खण्डद्वयं जातम् । एकं त्रिज्याभुजज्याघात ऋणगतः । द्वितीयं त्रिज्यावर्ग एव । तयोर्योगे क्रियमाणे त्रिज्याभुजज्यात्तिहीना त्रिज्याकृतिभुजोनत्रिभखण्डसम्पूर्ण- ज्यावर्गः स्यादतस्तद्दलपदं भुजोनत्रिभखण्डार्द्धज्या स्यादित्युपपन्नम् । एवं भुजयुक्तत्रिभज्या भुजः भुजज्यायोगात्मकोत्क्रमज्याकोटि: 'बाणेन्दुनाड्यूनन - तक्रमज्या त्रिज्यान्विता सैव नतोत्क्रमज्या' इत्यनेन न्यायेन । द्विगुणभुजयुक्तत्रिभदलज्याकर्ण: । अत्रापि भुजज्यायुक्तत्रिभज्यात्मकोत्क्रमज्या ‘त्रिज्योत्क्रमज्यानिहतेरित्यनेन' न्यायेन त्रिज्यागुणा जातं खण्डद्वयम् । एकं त्रिज्या- भुजज्याघातो धनगतः। द्वितीयं त्रिज्यावर्गः । अत उक्तं त्रिज्याभुजज्यातिहीनयुक्ते त्रिज्याकृतिर्दलमूलं र्भुजोनयुक्तत्रिभखण्डज्येति । इष्टभुजयोर्वियोगदलजीवाज्ञानमप्याह-यद्दोर्ज्ययोरन्त रमिति |
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५७४
दिखावट