पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्योत्पत्तिः ५३१ अत्र केचित् – यत्र षट्त्रिंशदंशज्यासाधनमाह - त्रिज्याकृतोषुघातादिति । षट्त्रिंशदंशा भुजस्तत्र कृतेषुभागाः कोटिरस्याः कोटेर्यदि क्रमज्या ज्ञायेत तर्हि कोटिज्यात्रिज्ययोर्वर्गान्तरपदं दोर्ज्येत्यनेन षट्त्रिंशदंशज्यासाधनं सुलभं स्यात् । तदुपोद्घातत्वेन त्रिज्यानखांशोऽष्टादशांशानामुत्क्रमज्येति स्वीकृत्य क्रमज्या साध्यते । चक्रकलाङ्के वृत्ते द्विगुणत्रिज्या व्यासो भवति । 'व्यासाच्छरोनाच्छरसंगु- णाच्चेत्यनेन' जातोऽष्टादशांशानां क्रमज्या वर्गोऽयम् | त्रिव ४३६ यत्राष्टादशांशा भुजस्तत्र द्विसप्ततिभागाः कोटिस्तयोरन्तरं चतुः पञ्चाशदंशतुल्यं च भवति । दोर्ज्याकृतिर्व्यासदलार्द्धभक्ता लब्धत्रिमौव्यविवरेण तुल्या । दोः कोटिभागान्तरशिञ्जिनी स्याद् । इति वक्ष्यमाणप्रकारेण जाता चतुःपञ्चाशदंशज्या त्रि १११ एतद्वर्गोऽयम् त्रिव १२५९२१ त्रिज्यावर्गादूनो जातः षट्त्रिंशदंशज्या वर्ग० त्रि० व १४४० अत्र गुणहरौ सहस्रपञ्चके ५००० नाप हरस्थानेऽष्टौ ८ गुणस्थाने २९४८/५० तस्मात् त्रिज्यावर्गोऽनेन गुणेन गुणितोऽष्टभक्तः षट्त्रिंशदंशज्यावर्गः स्यादिति सिद्धम् । स तु सान्तरो दृष्ट इति निरन्तरीकरणार्थं गुणक ईदृशो २१४५१५० गृहीतः । अनेन त्रिज्यावर्गस्य गुणने प्राप्ते स्वतन्त्रस्थेन पञ्चमितो गुणको धृतः । 'इष्टयुक्तेन गुणेन निघ्नः' इत्यनेन । अत उक्तं त्रिज्याकृतीषुघातादिति । अभीष्टघ्नगुण्यवर्जितः कार्य इतीष्टमिदं २|१४|१० गुण्यस्त्रिज्यावर्गः । तत्रेष्टन्तु पञ्चानां मूलमिति 'वर्गेण वर्गं गुणये दित्यनेन' पञ्चगुणस्य त्रिज्यावर्गवर्गस्थ मूलमभीष्ट- घ्नगुण्यः स्यात् । अत उक्तं 'त्रिज्याकृतिवर्गपञ्चघातस्य' 3 मूलोनादिति । ततोऽष्टहृतान्मूलं षटुत्रिंशदंशज्येति । सूक्ष्मरीत्या षट्त्रिंशज्ज्यानयनार्थन्तु अष्टादशांशज्यातो द्विसप्तत्युक्रमज्यां कृत्वा ततोर्द्धंज्या रीत्योपपत्तिरूह्या । प्रकारान्तरेणाह—गजहयगजेषुनिघ्नीति | अत्र वासना – यद्ययुतमितत्रिज्यायां १०००० गजहयगजेषु ५८७८ मिता षट्त्रिंशदंशज्या तदेष्टत्रिज्यायां केति सुगमा । > इदानीमष्टादशभागजीवानयनमाह - त्रिज्याकृतीषुघातान्मूलमिति । अत्र पञ्चदशांशज्यागगनाङ्कनागा इति त्रिज्याचतुर्थांशादधिकाष्टादशभागजीवा भवितुमर्हति । तस्मात् त्रिज्या येन गुणा चतुर्भक्ता सत्यष्टादशभागजीवा वास्तवा स्यात्तत्प्रमाणं यावत्तावदेकं प्रकल्प्य 'तत्त्वाश्विभक्ता असवः कला वेति' गणितप्रका- रेणाटादशांशज्या तुल्यरूपै: साम्यकरणेन लब्धो गुणक: १|१४|१० अनेन त्रिज्या गुणनीया चतुभिर्भाज्येति जातम् । गुणो परिमाङ्के रूप १ संयोज्य गुणको गृहीतः २|१४|१० अयं पञ्चानां मूलतुल्य इति 'त्रिज्याकृतीषुघातान्मूलमित्युक्तम्' । २. द्वासप्तति क ख १० । १. अत्रे ख पु० पा० । ३. मूलोत्रादिति ख पु० ।