प्रश्नाध्यायः वंशस्य मूलं प्रविलोक्य चाग्रं तत्स्वान्तरं तस्य समुच्छ्रयं च । यो वेत्ति यष्टयैव करस्थयासौ धीयन्त्रवेदी वद किं न वेत्ति ॥ ५० । वा० वा०—अथ प्रागुदिता नपि यन्त्राध्यायप्रश्नाननुवदति – वंशस्य मूल- मित्यादिना ॥ ५० । प्रश्नः-- यो विज्ञाय नतं कालमिष्टच्छायापलप्रभे । क्रान्तिज्यां वक्ति तं मन्ये पटुं गणितगोलयोः ॥ अस्य भङ्गः-- नतासुकोटीगुणसूर्यघातात् त्रिज्याप्तवर्गोऽक्षमया स्वनिघ्न्या | युतो हरोऽमोष्टहृतिद्विभूमिवधात् त्रिभज्याविहृतात् फलस्य ।। वर्गेण हीनाच्च हरात् पदेन नतासुकोटोगुणसङ्गुणेन । पलप्रभाघ्नीष्टहृतियुँतोना सूर्याहता हारहृतापमज्या ॥ द्विधोदगेवात्र विलोमशुद्धौ सात्वन्तरोत्थानुदगेव वेद्या । फलस्य वर्गो हरतोऽधिकश्चेत् तदा खिलोद्दिष्टमथो स वर्गः ॥ हरेण तुल्यो यदि वा नतं स्यात् पश्वेन्दुनाडीप्रमितं तदा स्यात् । हरोद्घृताभीष्टहृतिः पलाभार्कघातनिघ्न्येकविधोदगेव ॥ प्रश्न:- समुन्नतस्य कालस्य मानमिष्टप्रमां तथा । सूर्यमालोक्य गोलज्ञ पलभां ब्रूहि सत्वरम् । श्रीम० देवोक्तोऽस्य भङ्गः - अत्रोन्नतासूत्क्रममौर्विकाघ्न्याः क्रान्तिज्यकायास्त्रिगुणोद्धृतायाः । वर्गेण युक्तोन्नतकालजीवाकृतिहंरः स्यादथ शङ्कुनिघ्नी ॥ त्रिज्या द्युजीवा गुणितोन्नतज्या तद्वर्गयोरन्तरतो हराप्तम् । आद्यः परः क्रान्तिगुणोन्नता सुव्यस्त ज्यकाशङ्कवधाद्धराप्तम् । स्वघ्नात् परादाद्ययुतात् पदं यत् पराढ्यहीनं खलु गोलयोस्तत् । अक्षज्यका स्यादथ सौम्यगोले द्युज्योन्नतज्याभिहतियंदाल्पा | शङ्कोस्त्रिभज्यागुणितात् तदोनात् परस्य वर्गात् प्रथमेन मूलम् । तेनोनयुक्तस्तु परो द्विधा स्यादक्षज्यकेयं सुधियावगम्या || प्रश्न:- नतांशमानं च नतासुमानं दिवाकरस्यापमभागमानम् । ज्ञात्वा वदेद्यः पलभागमानं किमत्र गण्यं सुधियोऽस्य मानम् ॥ अस्य भङ्गः- नतांशजीत्रागुणिता सुजीवा त्रिज्योद्घृता तत्रिभजीवयोर्यत् । वर्गान्तरं तद्धरसंज्ञकं स्यादथो त्रिभज्यागुणितो नरो यः ॥ सूत्रं द्युजीवागुणितं यदेतद्वर्गान्तरं हारहृदाद्यसंज्ञम् । शङ्कुत्रिभज्यापममौर्विकाणां घाताद्वराप्तं परसंज्ञकं स्यात् ॥
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५६१
दिखावट