५०४ सिद्धान्तशिरोमणी गोलाध्याये द्युज्यकापमगुणार्कदोर्ज्यकासंयुतिं खखखबाणसंमिताम् | वीच्य भास्करमवेहि मध्यमं मध्यमाहरणमस्ति चेच्छ्रुतम् ॥ ३१ ॥ युज्यापक्रमभानुदोर्गुणयुतिस्तिथ्युद्धृताब्ध्याहता स्यादाद्यो युतिवर्गतो यमगुणात् सप्तामरा ३३७ प्तोनिताः । नागाद्रयङ्गदिगङ्ककाः ९१०६७८ पदमतस्तेनाद्य ऊनो भवे- द्वयासार्धेऽष्टगुणाब्धिपावकमिते क्रान्तिज्यकातो रविः ।। ३२ । क्रान्तिज्यासमशङ्कतद्धृतिमहीजीवाग्रकाणां युति- दृष्टिा खाम्बरपञ्च खेचरमिता देशे तत्र पृथक् पृथग्गणक ता गोलेऽसि दक्षोऽक्षज- पञ्चाङ्गुलाक्षप्रभे । क्षेत्रक्षोदविधौ विचक्षण समाचत्वाविलक्षोऽसि चेत् ।। ३३ । क्रान्तिज्यां विषुवत्प्रभारविहतेस्तुल्यां प्रकल्प्यापराः कृत्वाग्रासमशङ्कुतद्धृतिमहीजीवा द्वयाद्यास्तद्युतिभाजिताः पृथगथ प्रोद्दिष्टयुत्या हता अभीष्टास्ततः । उद्दिष्टा खलु यद्युतिः पृथगिमा व्यक्ता भवन्ति क्रमात् ।। ३४ । अग्रापमज्याक्षितिशिजिनीनां योगं सहस्रद्वितयं विदित्वा । पृथक्पृथक् ता गणक प्रचचव रूढा सगोले गणिते मतिश्चेत् ।। ३५ । आस्तां तावत् सगोलः सुगणक गणितस्कन्धबन्धप्रसिद्धः सिद्धान्तो लग्नसिद्ध्यै किमिति बत कृतस्तत्र तात्कालिकोऽर्कः । नाडीपट्या धुरात्र दशपलयुतया भानवीयं किलार्या लग्नं तात्कालिकार्कात् प्रवद किमधिकं तद्दुरात्र पलोने' ।। ३६ । १. अत्र बापूदेवोक्तो लग्नानयनप्रकार :- या सायनार्कस्य भुजज्यका सा त्रिभद्यजीवागुणिताद्यमौर्व्या । भक्ताप्तचापस्य लवा: खरांशोराद्ये पदे स्युविषुवांशकास्ते ॥ तैश्चापभाग : खभुजङ्गचन्द्रा १८० हीना द्वितीये थ युतास्तृतीये | तुयें पदे चक्रलवा विहीना भानोर्भवेयुर्विषुवाख्यभागाः ॥ यातेन शेषेण दिवा दिनाधं विवर्जितं प्राक् परतः कपाले । भवेद्दिनेशस्य नतं क्रमेण रात्री तु शेषेण गतेन युक्तम् ॥ षड्घ्नीभिनंतनाडोमिस्तीक्ष्णांशोविषुवांशकाः । प्राच्यां हीना युताः पश्चात् स्युः खमध्यस्य ते ध्रुवम् ॥
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५४६
दिखावट