पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रश्नाध्यायः- ५०३ वा० वा० – मित्रमित्र स्त्रिनेत्रस्य दिश्युद्गममिति । आर्द्रानक्षत्रमध्यस्थितः सूर्य इति क्रान्तिज्या ज्ञाता । सूर्य इति सायन एव । त्रिनेत्रदिशीत्यनेन दिग्ज्या ज्ञाता | अत्र दिग्ज्यैवार्काग्रा । यद्यग्रातुल्येन कर्णेन क्रान्तिज्याकोटिस्तदा त्रिज्याकर्णे का कोटि- रिति लम्बज्या ततो लम्बांश अक्षांशाश्च । लम्बज्याकोटौ पलज्या भुजस्तदा द्वादश- कोटौ को भुज इत्यक्षभा | एकद्वित्रिचतुःपञ्चषड्भिर्यंत्रेति । यत्र मिथुनार्द्धादग्रे स्थितार्कस्य क्रान्तिर्लम्बा- धिका तत्र सततं मासमेकं दिनं सूर्यस्य तदा क्षितिजोपर्येव स्थितत्वात् । मिथुनादेर स्थितार्कस्य क्रान्तिलम्बाधिका तत्र मासद्वयमितं दिनं यतो यान्येव मिथुन रात्राणि तान्येव कर्करात्रवलयानि । एवं वृषभार्द्धादग्रे स्थितार्कस्य क्रान्तिर्लम्बाधिका तत्र मासद्वयमितं दिनं यतो यान्येव मिथुनद्युरात्राणि तान्येव कर्करात्रवलयानि । एवं वृषभार्द्धा स्थितार्कस्य क्रान्तिलम्बाधिका तत्र मासत्रयं दिनम् । यत्र वृषभादेरग्रे स्थितार्कस्य क्रान्तिलम्बाधिका तत्र मासचतुष्टयम् । यत्र मेषार्द्धादग्रे स्थितार्कस्य क्रान्तिर्लम्बाधिका तत्र मासपञ्चकं दिनम् । यत्र मेषादेरग्रे स्थितार्कस्य सायनस्य क्रान्तिर्लम्बाधिका तत्र मासषट्कं दिनम् । अत्र मिथुनार्द्धक्रान्तितुल्यलम्बांशेषु नवतिच्युतेषु यच्छेषं तत्तुल्याक्षांशेषु मासमेकं दिनमेवं सर्वत्र ज्ञातव्यम् ॥ २९-३० । प्रश्न: - तारकयोः प्रत्येकं ध्रुदकक्षेपौ कदम्बसूत्रोत्थौ । अवलोक्य तयोरन्तरमाकाशे कि भवेद्वद क्षिप्रम् ॥ अस्य भङ्गः -- यदन्तरं भध्रुवयोः किलाल्पं तत्कोटिजीवा शरकोटिजाभ्याम् । ज्याभ्यां हताद्यः शरयोश्च: मौर्योर्हति स्त्रिभज्यागुणिता पर: स्यात् || तयोर्युतिर्मार्गणतुल्यदिक्त्वे विभिन्नदिक्त्वे वियुतिर्विधेया । तस्य याप्तं त्रिगुणस्य कृत्या तच्चापकोटिभंयुगन्तरं स्यात् || चेदाद्य एव वियुतो हि पराद्विशुद्धयेदाप्तस्य चापमिह खाङ्कयुगन्तरं स्यात् । यद्यन्तरं ध्रुवकयोरधिकं नवत्या योगेऽन्तरे च विदधीत सुधीविलोमम् ॥ विषुवांशस्फुटक्रान्तीरपि प्रत्येकमृक्षयोः । अवलोक्य सुधीरेवं जानीयादन्तरं तयोः ॥ प्रश्न:- ग्रहस्य मध्यमां क्रान्तिं शरं चालोक्य बुद्धिमन् | स्पष्टापमज्यकां विद्धि गोलेऽसि निपुणो यदि ॥ अस्य भङ्ग:- ग्रहस्यास्फुटक्रान्तिजीवेषुकोटिज्यकाघ्नी त्रिभज्योद्घृताथो शरज्या | त्रिभद्यज्यकाघ्नी त्रिभज्याविभक्ता तयोः संस्कृतेः स्यात् स्फुटक्रान्तिजीवा ॥