५०२ सिद्धान्तशिरोमणी गोलाध्याये सह यत्र संपातस्तत्प्राच्यपरयोरन्तरमग्रा | यत्रोन्मण्डले लग्नं तत्प्राच्यपरयोरन्तरं पलांशाः क्रान्तिरूपाः । अथ तज्ज्ञानार्थमपसारलवानां कोटिज्या | स पुरचिह्नालम्बः शङ्कः । स पलभया गुण्यो द्वादशभक्तो जातं शङ्कतलम् | उत्तरगोल उत्तरभुजस्य शङ्कुतलस्य च योगेऽग्रा भवति । तदन्यथान्तरे कृते सत्यग्रा । अतो वैपरीत्येन क्रान्तिः । तदर्थमनुपात: । यदि पलकणें द्वादश कोटिर्लभ्यते तदाप्रया किमिति । फलं क्रान्तिज्यारूपाक्षज्या । अतस्तच्चापमक्षांशा इत्यु- पपन्नम् । भूमेः पादाधिकेऽपसारेऽतो व्यस्तं यतो विषुववृत्तमधः सममण्डलादुत्तरतः ॥ २८॥ वा० वा० – दिक्शूलादिविचारे गन्तव्य नगरदिनिर्णयो दिग्ज्ययैव भवति । क्षितिपरिधिषडंशे प्राचि धारा नगर्या इति । 'दिग्ज्यापलभा क्षुण्णे' इति सूत्रेणानयनं पूर्ववत् ॥ २८ ॥ अथोक्तानपि प्रश्नानेकीकर्तुमाह'. मित्र मित्रस्त्रिनेत्रस्य दिश्युद्गमं याति यत्र त्रिनेत्रर्चमध्यस्थितः । तत्र मे तान्त्रिकाक्षुब्धमक्षप्रभां क्षिप्रमाचक्ष्व दक्षोऽसि गोले यदि ॥ २९ ॥ एकद्वित्रिचतुःपञ्च षड् भिर्यत्रोदितो रविः । मासैरस्तमयं याति तत्राक्षांशान् पृथग्वद || ३० । १ अत्र बापूदेवोक्तः प्रश्नः – पलभाज्ञः सहस्रांशोरुन्नतांशान् दिशं च यः । अवलोक्य वदेत् क्रान्ति स वै गाणितिकोत्तमः || अस्य भङ्ग :- इष्टच्छायाहता दिग्ज्या पलभाघ्नत्रिभज्यका | ताभ्यामक्षीन्दुनिघ्नीभ्यामिष्टकर्णाक्षकर्णयोः ।। घातेनावाप्तयोर्योगो यदि सौम्या दिगंशकाः । अन्यथा त्वन्तरं सौम्या याम्या क्रान्तिज्यका क्रमात् || याम्यदिग्भागसत्वेऽपि प्रथमावातमेव चेत् । द्वितीयावाप्ततः शुध्येत् तदा सौम्यापमज्यका || अत्र श्रीम० देवोक्तः प्रश्न: - लङ्कायां स्वपुरे चैककाले यमुदेष्यति । तस्य क्रान्ति समाचक्ष्व गोले चेत् ते तता मतिः ॥ अस्य भङ्गः— देशान्तरोत्थो यः कालस्तन्नताख्यं प्रकल्पयेत् । नतकोटिज्यका सूर्यैर्हताऽक्षश्रुतिभाजिता ॥ तस्याश्चापं पराख्यं स्याल्लम्बज्या नतजीवया | गुणिता परकोटिज्याविद्दता तद्धनुवाः || क्रान्त्यंशा उत्तरा याम्या: परपूर्वनते क्रमात् । ज्ञेया ऋक्षस्य ते ह्यत्र जिनाल्पाश्चेद्रवेरपि ॥ बापूदेवोक्तः प्रश्नः— चरापमांश संयोगं विलोक्याग्रांशकांश्च यः । चरक्रान्ती पृथक् तूर्णं वदेत् स गणकोत्तमः ॥ अस्य भङ्गा - द्विनित्यग्रकामागखाङ्कान्त रज्या चरापक्र मैक्यस्य कोटिज्ययोना । युतिः शेषचापस्य कोटया युतोना द्विभक्ता न्तिभागाः पृथक् स्युः ।। अधिकन्यूनभावं तु चरापक्रमयोः किल । प्रच्छकेच्छावशादेव गणकोऽत्र प्रजल्पयेत् ||
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५४४
दिखावट