सिद्धान्तशिरोमणी गोलाध्याये वा० भा० - उदाहरणे ग्रहाणां यथा यथा योगोऽन्तरं वाभिहितं तथा तथा ग्रहयुगभगणानामपि कार्यम् । यदि शोध्यं न शुध्येत् तदा कुदिनानि दत्त्वा शोधयेत् । तथा गुणकैर्गुणने योगे च कृते यदि राशिः कुदिनाधिको भवति तदा कुदिनैस्तक्ष्यः । एवं योगान्तरादि यद्भवति तेन दृष्टग्रहस्य युगभगणा एकत्रोनाः कार्याः । अन्यत्र तैभंगणैस्तदूनं कार्यम् । एवं कृते प्रथमस्थाने यदवशेषं तेऽन्य भगणा भवन्ति । यद्यन्यभगणा उदाहरणे धनं कृताः । यदि ऋणं कृतास्तदा द्वितीयस्थाने यदवशेषं तेऽज्यभगणा इति । ४८४ अत्रोपपत्तिः– यद्ग्रहाण योगवियोगादिकं तत् तद्युगभगणानां कृतम् । तथाविधैभंग- जरहगंणाद्ग्रहवत् फलं आनीते तद्योगवियोगादिकमुत्पद्यते । यत्र शोध्यं शुद्धयति तत्र यत् कुदिनानि दत्तानि तत्रेयं युक्तिः । येर्भगणैर्यादृशो ग्रहो राश्यादिको भवति तैरेव कुदिनाधिकैस्तादृश एव राश्यादिक: स्यात् । भगणशेषयोस्तुल्यत्वात् । किंतु तद्भगणा अधिका आगच्छन्ति ते परित्यक्ता: प्रयोजनाभावात् । उदाहरणं हि राश्यादिग्रहाणामेव । अनथैव युक्त्या यत्र गुणनादिके कृते कुविनाधिकत्वं दृश्यते तत्र राशि: कुदिनैस्तक्ष्य इत्युक्तम् । अथैव योगवियोगादिके ये भगणा जातास्तेऽन्यभगणैरूनाः सन्तो दृष्टग्रहभगणा भवन्ति । दृष्टभगणेरूना अन्यभगणा भवन्तीति विलोम विधिः । यदान्यभगणैर्युक्ताः सन्तो दृष्टभगणा भवन्ति तदा तेरैवोना दृष्टभगणा अन्यभगणा भवन्तीत्यर्थात् सिद्धम् । । अत्र द्वाद- ६ ११ ८ 12 २४ १२ ० ६ १२ एषां अ बालावबोधार्थ कल्पितभगणैरुदाहरणम् । तत्र रवेभंगणास्त्रयः ३ । चन्द्रस्य चत्वारः ४ । भौमस्य पञ्च ५। गुरोः सप्त ७ । शनेनंव ९ । कुदिनानि षष्टिः ६० । र. चं. मं. गु. श. त्रयोविंशति २३ महगंणं प्रकल्प्य साधिता ग्रहाः शगुणोऽकंः । एकगुणश्चन्द्र: । षड्गुणो भौमः । र १८ । चं. १३ । मं. 1 योगः १० । ० । अमुं त्रिगुणाद्गुरोविंशोध्य २४ | १८ शेषम् २ | १८ | अथाज्ञातभगणज्ञानार्थं ग्रहयुगभगणानां यथोक्ते योगे वियोगे च कृते जातम् ११ । ० । एतच्छनि भगणेनंवभिरूनीकृतं जातावन्यभगणौ २ । यद्यन्यभगणा ऋणं तद्भगणद्वयसंभूतो ग्रहः ९ । ६ । अस्मिन् पूर्वस्मात् २ । १८ शोधिते जातः शनिः ५ । १२ । यद्यज्ञातः खेटः स्वं तदा शनिभगणेषु ९ कुदिनानि ६० प्रक्षिप्यैकादश ११ विशोध्य जाता अन्यभगणा: ५८ | एभ्यो जातो ग्रहः २ | २४ । अनेन पूर्वशेषे युते जातः शनि: ५ । १२ ।। ७–९ । वा० वा० --- अथ पाटीगणितान्तर्गतविलोमगणितविषयं प्रश्नमाह - चञ्च- च्चन्द्रगुण इति । प्रश्नभङ्गार्थं सूत्रमाह – उद्देशकालापवदेवेति । अज्ञातखेट इति । अत्र शेषं केनचिदपरखेचरेणोनं शनिर्यदि भवति तदा शनिनोनं शेषमपरखेचरः स्यात् । यदि च शेषमपरखेचरयुतं शनिर्भवति तदा शेषोन: शनिरपरखेचरः स्यात् । अत्र कल्पगतकालकीर्त्तनाद् ग्रहभगणानामेव योगान्तराद्यं विहितम् । मध्यमग्रहानयने कल्पकुदिनानि हरा इति क्वहाः प्रदेयाः । अविशुद्धशुद्धौ क्वहैश्च तक्ष्यं कुदिनाधिकं चेदित्युक्तम् । त (त्त्व )क्षू तनूकरणे ॥ ७-९ ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५२६
दिखावट